SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ देवा मंडलीया इस्सरा तलवरा सेणावती इन्भा सेट्ठी रहिया पुरोहिया कुमारा दंडणायगा गणनायगा माडंबिया सत्यवाहा कोडुबिया अमचा एए अन्ने य एवमाती परिग्गहं संचिगंति, अणंतं, असरणं, दुरंतं, अधुवमणिचं, असासयं, पावकम्मनेम्म, अवकिरियव्वं, विणासमूलं, वहबंधपरिकिलेसबहुलं, अणंतसंकिलेसकारणं, ते तं धणकणगरयणनिचयं पिडिता चेव लोभत्था संसारं अतिवयंति सव्वदुक्खसंनिलयणं, परिग्गहस्स राजस्थानीयाः, सेनापतयः-सेनानायका, इभ्या येषां द्रव्यस्योत्करेण हस्ती न दृश्यन्ते तावत्परिमाणद्रव्यपतयः, श्रेष्ठिनः श्रीदेवतालंकृतशिरोवेष्टनकाः, राष्ट्रिका-राष्ट्रचिन्ताकारिणः राजचिन्ताकारिणः राजनियुक्ताः, पुरोहिताः शान्तिकर्मकारिणः, कुमाराः, राज्याः , दण्डनायकास्तंत्रपालाः, गणनायकाः सामान्यजनसमुदाये ये मुख्याः, माडम्बिकाः प्रत्यन्तराजानः, सार्थवाहाः अधनि सहायाः प्रतीताः, कौटुम्बिकाः ग्राममहत्तराः, सन्तो ये सेवकाः, अमात्यराजचिन्तकाः, एते उक्तलक्षणाः ये चाऽन्येऽपि एवमादयस्तथाभूताः परिग्रहं संचिन्वन्ति-कुर्वन्ति सञ्चयं तत् । कीदृशं ? अपरिमाणत्वात् अनन्तं, इच्छा हु आगाससमा अणंतिया इति वचनात दुःखेभ्यो रक्षणासमर्थत्वात् अशरणं, दुरन्तं पर्यवसानदारुणत्वात् दुरन्तं, अध्रुवं नावश्यंभावि आदित्योदयवत् , अनित्यं असारत्वात् | अशाश्वतं ज्ञानावरणीयादिपापकर्मणां नेम्म मूलधनं, जिनागमेन जिनबुद्धिचक्षुषा अवकिरियव्वंति तत्त्याज्यं क्षेप्यमित्यर्थः, विनाशो-ज्ञानादिगुणानां नाशकारणं, वधो-यष्टयादिना, बन्धो रज्वादिना तेषां परिक्लेशस्तापस्तदेव प्रचुरं यत्र तत्, अपारं यत्संक्लेश:चित्ताऽविशुद्धिस्तत् करणं ते परिग्रहः च पुनः धनकनकरत्न-निचयं पिण्डयन्तस्तदेकग्रहणं कुर्वन्तः लोभग्रस्ताः सन्तः संसार-चतुर्गतिकलक्षणं अभिव्रजन्ति-गच्छन्ति । कीदृशं ? सर्वदुःखस्य निलयनं-स्थानं । परिग्रहस्यैव अर्थाय-प्रयोजनाय शिल्पानां आर्योपदेशप्रा
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy