________________
नाशा
णकचक्क-मगरदुविह-मुसंढ-विविहगाह-दिलिवेढय-मंडुय-सीमागार-पुलक-संसुमार बहुप्पगारा जलयरविहाणा कए य एवमादी।
तस्य पूर्वोक्तत्रिंशन्नामकस्य पाणातिपातस्य, कलुषस्य मलिनस्य पापस्य, कटुकफलदर्शकानि-असुन्दरभवायतिमूलानि तेषां नामानि, तं--प्राणातिपातं, च-पुनरर्थे, कुर्वन्ति पापात्मनः केचन अपि पुनः न तु सर्व इत्यर्थः । कीदृशाः कुर्वन्ति ? तान् आह-असंयता अजितेन्द्रियाः, अविरताः तपोऽनुष्ठाने अरताः, अनिभृतः--अनुपशांतः अस्थिरचित्तत्वात् परिणामश्चित्ताभिप्रायः, प्रयोगो दुष्टमनो वाक् कायव्यापारो येषां ते । ते पापाः प्राणिवधं सर्वमाणिभयंकर भयोत्पादकं माणिवधकरणस्य बहवः प्रकारा यस्य तस्य बहुमाणिषु भवन्ति । कीदृशाः पापाः ? परेषां जन्तुनो दुःखोत्पादनप्रसक्ताः जन्पीडाकरणे रता इत्यर्थः एतेषु प्रत्यक्षेषु त्रसनामनिष्पन्नेषु स्थावरेषु एकेन्द्रियादिषु वा तत् अरक्षणतो द्वेषवन्तः परिनिविष्टाः कथं कथं प्राणिवधं कुर्वन्तीत्यर्थः। पाठीना मत्सविशेषाः। तिमितिमिगिला महामत्स्याः तेऽपि महामत्स्यतमावा दालादयो, विविधमकाराः झपा मत्स्येषु क्षुद्रमत्स्याः, विविधजातीया मण्डुकाः भेकजातौ प्रसिद्धाः, सूक्ष्ममत्स्यखलमत्स्ययुगलमत्स्यादयो, द्विविधाः कच्छपाः १ मांसकच्छपाः २ अस्थिकच्छपाश्च, नक्रचक्राः मत्स्यजातिविशेषाः, मकराः जलचरविशेषाः द्विविधाः स्थले जले जाताश्च, मूढसंढमत्स्या विविधजलोत्पन्नाः, ग्राहा जलजन्तुविशेषमत्स्याः , दिलिवेष्टकाः पुच्छेन ये वेष्टयन्ति ते,मण्डूकसीमाकारपुलकादयः सर्वेऽपि ग्राहभेदाः, सुंसुमाराः जलचरविशेषाः, इत्यादयो बहुप्रकाराः तान् घन्तीति वक्ष्यमाणेन योगः, जलचराणां विधानानि भेदानि कृतानि एवमादयो ज्ञेयाः ।
कुरंग-रुरु-सरह-चमर-संबर-उरन्भ-ससय-पसय-गोण-रोहिय-हय-गय-खर-करह-खग्गी-वानर