________________
॥२३७॥
उ०५ ओदनमन्थुकल्माषेण शरीरयापनेति।
शब्दार्थः । 'पुट्ठो वा से '-स भगवान् स्पृष्टो वा श्वभक्षणादिमिरस्पृष्टो वा कासादिमिः, भगवतो न प्राकृतजनस्येव देहजाः कासादयो रोगा भवन्ति, आगन्तुकास्तु प्रहारजा भवेयुः। अतः स्पृष्टो वा नासौ चिकित्सामभिलपति । 'संसोहण 'चि-गात्रस्य सम्यक् शोधनं-विरेचनं निःसोत्रादिभिः, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः, स्नानं चोद्वर्त्तनादिमिः, संवाधनं च हस्तपादादिभिः तस्य भगवतो न कल्पते । सर्वमेव शरीरमशुच्यात्मकमित्येवं परिज्ञाय-ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पते । 'विरए 'ति-विरतो निवृत्तः केभ्यो', प्रामधर्मेभ्यः, चशब्दाद् विषयेभ्यः, रीयते-गच्छते संयमानुष्ठाने पराक्रमते । 'माहणे 'त्ति-श्रीमन्महावीरः । किम्भूतः १, अबहुवादी-मितभाषी मौनी वेत्यर्थः । तथैकदा शिशिरसमये स भगवान् शुक्लध्यानध्यायी आसीत् । क', 'छायोयां' आतापयति ग्रीष्मेग्विति । 'अच्छा'तिष्ठति उत्कटासनः, 'अभितापे'-तापाभिमुख 'अदु 'ति-अथवा यापयति स्म धर्माधारं देहं, केन ?, 'लूहेणं 'तिरूक्षेण स्नेहरहितेन ओदनमन्थुकुल्माषेण-ओदनं-कोद्रवौदनादि, मन्थु-बदरचूर्णादिकं, कुल्माषा:-माषविशेषा एवोत्तरापथे धान्यविशेषभूताः, पर्युषितमाषा वा, सिद्धमाषा वा, ओदनमन्युकुल्माषमिति समाहारद्वन्दः, तेनात्मानं यापयतीति । एतदेव कालावधिविशेषणतो दर्शयितुमाह
“एयाणि तिनि पडिसेवे अदमासे व जावयं भयवं । अपि इत्थ एगया भयवं अद्धमासं अदुवा मासंपि ॥ ९९ ॥ अपि साहिए दुवे मासे छप्पि मासे अदुवा विहरित्या। राओवरायं अपडिन्ने अन्नगिलायमेगया मुझे ॥ १०॥ छटेण एगया भुले अदुदा अट्टमेण दसमेणं । दुवालसमेण एगया मुझे पेहमाणे समाहिं अपडिन्ने ॥ १.१॥णमा गं से महावीरे नोऽवि य पावगं सयमकासी । अग्नेहि वा णकारित्या कीरंतंपि नाणुजाणित्था ॥ १.२॥" ..
स
CHARCHARACCॐ
CHAE%
॥२३७॥