________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे प्रथमाध्ययनम्
ॐ नमो वीतरागाय अथ श्रीसूत्रकृताङगे द्वितीयश्रुतस्कंधे
प्रथमं पौण्डरीकाध्ययनम् श्री सूत्रकृतांगस्य प्रथमः श्रुतस्कंध उक्तः, अधुना द्वितीयः प्रारभ्यते, तस्य सप्त अध्ययनानि, तेषु प्रथमं पुंडरीकाध्ययनं, तस्येदम् आदिसूत्रसुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु पोंडरीए णामं अज्झयणे, तस्स णं अयमढे पण्णत्त।।शा 'सुयं मेत्ति' श्रुतं मया आयुष्मता भगवता एवमाख्यातं, इह प्रवचने, खलु शब्दो वाक्यालंकारे'पौंडरिकाख्यं अध्ययनं, पुंडरीकेण-श्वेतपद्येन उपमा यत्र तत् पौंडरीकं, तस्यायं अर्थ: प्रज्ञप्तः, “णं वाक्यालंकारे" ॥१॥ से जहाणामए पुक्खरणी सिया, बहूदगा बहु सेया बहुपुक्खला लद्धट्ठ डरींगिणी पासादिआ दरिसणिज्जा अभिरूवा पडिरूवा ॥२॥ 'से जहाणामएत्ति' तद्यथा, 'नामशब्द: संभावनायां' संभाव्यते पुष्करिणीद्रष्टांत:, पुष्कराणि - पद्मानि यस्यां सा पुष्करिणी-वापी (१) P आओसं० (२) BJ भगवता, (३) अस्मिन् अध्ययने सर्वत्र । प्रतौ 'पुक्खरणी' इत्यस्य स्थाने 'पोक्खरणी AM प्रत्योञ्च 'पुक्खरिणी' ज्ञातव्यम् । (४) AM oरीकिणी (4) JAM सणिया