SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Is जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेए पहीणे तीरं, अपत्ते पउमवरपुंडरीअं Nणो हव्वाए णो पाराए अंतरा पुक्खरणीए सेअंसि विसण्णे पढमे पुरिसजाए // 6 // 'अह पुरिसेत्ति' अथ पूर्वस्या: दिश: कश्चिद् एकः पुरुषः समागम्य तां पुष्करणी, तस्याश्च तीरे -तटे स्थित्वा तत् पद्यं प्रासादीयादिविशेषणं स पुरुष: एवं वक्ष्यमाणं वदेत्, अहमंसित्ति- अहं अस्मि पुरुष: कुशल: पंडित: क्षेत्रज्ञः, व्यक्तो- बाल्याद् अतिक्रान्तो, मेधावी, अबालो मध्यमवया:, मार्गस्थ: सद्भिराचीर्णमार्गस्थः मार्गवित्, मार्गस्य या गति:- गमनं तया पराक्रमं विवक्षितदेशगमनं, तज्जानातीति मार्गस्य गतिपराक्रमज्ञः एवंविधो अहं एतत् पद्मवरपुण्डरीकं पुष्करिणीमध्यस्थं उन्निक्षेपस्यामि उत्खनिष्यामि इति कृत्वा इह आगत इति उक्त्वा स पुरुष: तां पुष्करिणी अभिक्रामेत सन्मुखं गच्छेत्, यावद् यावच्च तदवतरणेच्छु: सन्मुखं गच्छेत् तावत् तावच्च 'णं वाक्यालंकारे' तस्याः पुष्करिण्या: महत् अगाधं उदकं, महांश्च कर्दमः, ततः स महाकर्दमोदकाभ्यां आकुल: प्रहीण: तीरं, विभक्तिव्यत्ययात् तीराद् भ्रष्टः, अप्राप्तश्च पावरपुण्डरीकं तस्या: सेय: कर्दमः तस्मिन् निषण्णो निमग्नः, तीरपद्मयो: अंतराले एव तिष्ठति, तस्मात् नो हव्वाए त्ति न अर्वाक् तटवर्ती, नो पाराएत्ति नाऽपि पारगमनाय समर्थः, एवमसौ उभयभ्रष्टः, प्रथम: पुरुषजात: -पुरुषजातीयः // 6 // अहावरे दोच्चे पुरिसजाए, अह पुरिसे दक्खिणाउ दिसाउ आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए // 2 //
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy