SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सवायं उदए पेदालपुते भयवं गोयम एवं वयासी (इत्यादि) तेसिं च णं थावरकासि उववण्णाणं ठाणमेयं धत्तं (सू०) ॥१२॥ ___व्याख्या-सवादमुदको गौतममवादीत-हे गौतम ! नास्ति स कश्चित् पर्यायो यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य 'दण्डो' वधो 'निक्षिप्तः ' परित्यक्तः स्यात् । कोऽर्थः १ श्राद्धेन समुद्दिश्य प्रत्याख्यानं कृतं, संसारिणां चान्योन्यगमनसम्भवात् , त्रसाः सर्वेऽपि स्थावरत्वं प्राप्तास्तदा सानामभावानिर्विषयं प्रत्याख्यानमित्यर्थः 'कस्स णं'ति केन हेतुना इदमुच्यते ? सांसारिकाः खलु प्राणाः स्थावरात्रपतया त्रपा अपि स्थावरतया प्रत्याख्यान्ति, स्थावरकायाद्विप्रमुच्यमानाः स्वायुषा 'स' निखशेषकास्त्रसकाये समुत्पद्यन्ते, त्रसकायादपि तदायुषा मुच्यमानाः सर्वे स्थावरकाये समुत्पद्यन्ते, तेषां त्रसानां स्थावरकायोत्पन्नानां स्थानमेतद्घात्यं, यथा केनचित् प्रतिज्ञातं मया नगरनिवासी न हन्तव्यः तच उद्वसितं नगरं, ततो निर्विषयं प्रत्याख्यान, एवमत्राऽपि त्रमानामभावानिर्विषयत्वमिति ॥ १२ ॥ अथ गौतमः प्राह-सदाचं सवार्य भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी ( इत्यादि) अयंपि मेदे से णो नेयाउए भवद (सू०)॥ १३ ॥ व्याख्या-सदाचं गौतम उदकमवादीत्, अस्माकमिति मगधदेशे सर्वजनप्रसिद्धं संस्कृतमेवोच्चार्यते तथैवात्र पठितं, तदे वमस्माकं सम्बन्धिना वक्तव्येन नैतदशोभनं, किन्तर्हि ? युष्माकमेवाऽनुपवादेन एतदशोभनमिति, अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव । तथाहि-नैतद्भूतं न च भवति नापि च भविष्यति यत्सर्वेऽपि स्थावरानसत्वं प्रतिपद्यन्ते स्थावराणामानंत्यात् सानां चासङ्ख्येयत्वेन तदाधारत्वं न युक्तं, तसा अपि स्थावरत्वं न प्रतिपना न च प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, न च
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy