________________
--
-
-
राजाभियोगादिस्तेन त्रसं घ्नतोऽपि न व्रतमङ्गः, तथा गृहपति-चौरविमोक्षणतयेति । ____ अस्यार्थः कथागम्यः, सा चेयं-रत्नपुरे रत्नशेखरराज्ञा स्वान्तःपुरादिस्त्रीणां स्वैरक्रीडारूपः कौमुदीमहोत्सवोऽनुज्ञातः, पुरुषेण केनापि नगरमध्ये न स्थेयमित्याघोषणा कारिता, नृपादयः पुरुषाः सर्वेऽपि उद्याने सायं जग्मुः। एकस्य वणिजः षट् पुत्राः क्रयविक्रयादिव्यग्राः पुरमध्ये एव तस्थुः, स्थगितानि गोपुराणि, ततो निष्क्रान्ते महे राज्ञारक्षकाणामुक्तं-पश्यत नगरे कोऽपि नरोऽस्ति न वेति ? तर्विलोकयद्भिः षट्पुत्रास्ते दृष्टा, राज्ञो निवेदिताः, राज्ञा कुपितेन षण्णामपि वधः समादिष्टस्ततस्तपिता शोकाकुलो राजानं विज्ञापयति स्म, देव ! मा कृथाः कुलक्षयमस्माकं, सबंधनं गृह्यतां, मुच्यतां पुत्राः ।। एवमुक्तेऽपि राजा कथमपि न मुश्चति पुत्रान, ततः पिता सर्वपुत्रघातप्रवृत्तं राजानं ज्ञात्वा पश्चानां मोचनं याचितवान् , राजा पश्चापि न मुश्चति, ततश्चत्वारो याचिता तथाऽपि न मन्यते नृपस्ततस्त्रयो याचितास्तेऽपि न मुक्तास्ततो द्वौ मार्गितो, तावपि अमुञ्चन्तं नृपंमेकं पुत्रं याचितः, समग्रपौरजनविज्ञप्तो नृपः पुत्रमेकं ज्येष्टं मुक्तवान् । अत्रेयं दृष्टान्तयोजना ।।
सम्यक्त्ववान् श्राद्धः सर्वप्राणातिपातविरतिं कर्तुमशक्तो नृपस्थानीयषट्कायपितृतुल्येन साधुना प्रेरितोऽपि सर्वविरतिं नाङ्गीकुरुते, षडपि जीवकायान्मोचयति साधुः, श्राद्धस्तु षण्णां मोचनेऽशक्तो ज्येष्टमेकं त्रसकायं मुश्चति, पालयतीत्यर्थः साधुरेकमोचनेनाऽपि कृतार्थमात्मानं मन्यते । यथा च तस्य वणिजो न शेषपञ्चपुत्रवधानुज्ञा एवं साधोरपि न शेषप्राणिवधा. नुमतिः किन्तु यदेव व्रतं गृहीत्वा यानेव स्थूलसचान् सङ्कल्पवधनिवृत्तो रक्षति श्राद्धः, तनिमितं कुशलानुबन्ध एवेत्याह'तसेहिं' सेभ्यो 'दण्डं' हिंसां त्यक्त्वा यावद्विरमति तावत्तस्य कुशलं पुन्यमेवेति ॥१०॥
Parishad
-