SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ वान् लुप्यते, ममत्वजनितेन कर्मणा बाध्यते 'बालो' मूर्खः, विवेकरहितत्वादन्येषु च 'मूर्छितो' ममतबहुल इत्यर्थः ॥४॥ किं जानन् बन्धनं त्रोटयतीत्यस्योत्तरमाह वित्तं सोयरिआ० x x x (सू०)॥५॥ व्याख्या-'वित्तं' द्रव्य, तच्च सचित्तमचित्तं वा, सौदर्या भ्रातृ भगिन्यादयः, सर्वमेतद् वित्तादिकं संसारे पीडयमानस्य | जन्तोन त्राणाय न रक्षणाय भवतीति, एतत् 'सङ्ख्याय' ज्ञात्वा तथा जीवितं स्वस्पमिति 'सङ्ख्याय' अपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया प्रत्याख्याय कर्मणः सकाशात् त्रुप्यति' अपगच्छत्यसौ, तुनिचये, त्रुट्येदेव, यदि वा 'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनात् त्रुट्य ते-कर्मणः पृथग भवतीत्यर्थः ॥ ५॥ स्वसमयं प्रतिपाद्य परसमयं प्रतिपादयितुकाम आह एए गंथे० x x x (सू०)॥ ६ ॥ व्याख्या-'एतान् ' पूर्वोक्तान् 'ग्रन्थान् ' सूत्रार्थान् व्युत्क्रम्य' परित्यज्य 'एके' केचित् श्रमणब्राह्मगाः, श्रमणाः शाक्यादयो ब्राह्मगाश्च 'अयाणंता' परमार्थमजानाना 'विउस्ति 'त्ति विविधमुत्प्रावल्पेन 'सिता' बद्धाः स्वसमयेषु प्रतिबद्धवाः सन्तः कामेषु च सक्ता वन्त इति ॥ ६ ॥ साम्प्रतं नास्तिकमतमाश्रित्याह संति पंच० x x x (सू०) ॥ ७॥
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy