SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Vाच सेवते, अयमर्थः आधाकर्मादिलवेनाऽपि संसृष्टं परकत्तमल्याहार यो मायेत, सोऽपि द्विपक्षासेवी स्यात् , किं पुन: स्वयमाहारं निष्पाद्य ये शाक्यादयो भुञ्जते ते सुतरां द्विपक्षासेविनः स्युरित्यर्थः। अथवा द्विपक्षमीर्यापथं साम्परायिकं वा बद्धनिकाचितभेदं वा कर्म, तत्सेविनः परतीथिकाः स्वयूध्या वा स्पुरिति ॥ १ ॥ अथ तगोजिनां विपाकं दृष्टान्तेनाह तमेव अविआणता० x x x (स०)॥२॥ उदयस्स x x x (स०) ॥३॥ ___ व्याख्या-तमाधाकर्माद्युपभोगदोषमविजानन्तो विषमे' कर्मबन्धे संसारे वाकोविदा:-कथं कर्मबन्धः स्यात्कथंचन स्यात् कथं संसारार्णवस्तीर्यत इत्यत्रानिपुणा दुःखिनः स्युः। दृशन्तमाह-मत्स्या यथा 'वेसालिअ 'चि विशाल: समुद्रस्तत्र भवा विशालाख्यजातिमत्रा वा विशाला एव वा वैशालिका-बृहच्छरीरा' उदकस्य' जलस्याम्यागमे समुद्रवेलायां सत्यां उदकस्य प्रभावेन नदीमुखमागताः, पुनर्वेलापगमे जले शुकवेगेनाऽगते सति ढकै ककैश्च पक्षिविशेषैरन्यैश्वामिषार्थिभिर्विलुप्यमानास्ते दुःखिनो मत्स्या 'घात' विनाशं यान्ति-प्राप्नुवन्तीति श्लोकद्वयार्थः ॥ २॥ ३॥ दान्तिकयोजनामाह एवं तु समणा० x x x (सू०)॥४॥ व्याख्या-एवमेके श्रमणाः शाक्यादयः स्वगृध्या वा वर्तमानमेव सुखं इहलोकसुखमाधाकर्माापमोगजमेषितुं शीलं येषां ते वर्तमानसुखैषिणो वैशालिका मत्स्या इस 'पातं ' विनाशमेश्यन्त्यऽनन्त शो यास्यन्ति बहुचारं संमारे भ्रमिष्यन्ति दुःखमनुभवन्तः ॥ ४ ॥ अथापराकानिमतमाह
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy