SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 1 कृतकारितानुमतयः प्राणिहिंसायां न सन्ति तत्र भावविशुद्ध्या - रागद्वेषरहितबुद्ध्या प्रवर्त्तमानस्य सत्यपि प्राणातिपाते केवलेन मनसा मनोव्यापाररहितेन कायेन उभयेन वा विशुद्धबुद्धेर्न कर्मबन्धस्तदभावान्निर्वाणमभिगच्छति - प्राप्नोति ||२७|| भावशुद्धया प्रवर्त्तमानस्य हिंसायामपि कर्मबन्धो न स्यादित्यत्रार्थे दृष्टान्तमाह पुत्तं पिया० X X X ( सू० ) ॥ २८ ॥ व्याख्या - पिता पुत्रं ' समारभ्य व्यापाद्य आहारार्थं कस्याश्चित्तथाविधायामापोदि रागद्वेषरहितो ' असंयतो ' गृहस्थस्तन्मांस भुंजानोऽपि च शब्दोऽप्यर्थे, मेधावी संयतोऽपि भुञ्जानः कर्मणा नोपलिप्यते, यथा पितुः पुत्रं व्यापादयतोऽपि शुद्धमनसः कर्मबन्धो न स्यात्तथा तस्यारक्तद्विष्टस्य प्राणिवधे न कर्मबन्धः ॥ २८ ॥ एतद् दूषयन्नाह - मणसा जे० X X X ( सू० ) ॥ २९ ॥ व्याख्या - ये कुतोऽपि हेतोर्मनसा ' प्रदुष्यन्ति ' प्रद्वेषं यान्ति तेषां वचपरिणतानां शुद्धं चितं न विद्यते । एवं च यत्तैरुक्तं केवलमनः प्रद्वेषेऽपि ' अनवद्यं ' पापाभाव इति तत्तेषामतथं - मिध्या, यतस्ते न संवृत्तचारिणः, मनसोऽशुद्धत्वात् । तथाहि - कर्मबन्धे मुख्यो हेतुर्मन एव, यथा इर्यापथेऽनुपयुक्तो गच्छन् कर्मबन्धकः, उपयुक्तस्तु सहसाहिं कोऽपि न कर्मबन्धक इति ततः पुत्रं पिवेति दृष्टान्तो न समीचीन इति ॥ २९ ॥ अथ तेषामनर्थमाह इच्चेयाहिं० X X X ( सू० ) ॥ ३० ॥
SR No.600364
Book TitleSutrakritang Sutra Dipika Pratham Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy