________________
एवं तक्काइ० X x X ( सू० ) ॥ २२ ॥
ब्याख्या - एवं पूर्वोक्तन्यायेन ' तर्कया' स्वकल्पनया 'साधयन्तो ' वदन्तो धर्माधर्मयोरकोविदाः दुक्खं ते नातित्रोटयन्ति न अतिशयेनापनयन्ति, यथा शकुनिः पञ्जरं-पक्षी पञ्जरस्थो यथा पञ्जरं त्रोटयितुं बन्धनादात्मानं मोचयितुं न समर्थ, एवममापि संसारपञ्जरादात्मानं मोचयितुं नालम् ॥ २२ ॥ अथ एकान्तत्रादिमतं दूषयन्नाह
सयं सयं० X X X ( सू० ) ॥ २३ ॥
व्याख्या - स्वकं स्वकमात्मीयमात्मीयं मतं प्रशंसन्तः । परकीयां वाचं ' गईन्तो 'निन्दन्तः, यथा साङ्ख्या नित्यवादिनो बौद्धं क्षणिकवादिनं निन्दन्ति तेऽपि साख्यान् एवमन्येऽपि ज्ञेयाः, एवं एकान्तवादिनो ये 'तु' खधारणे, तत्र तेष्वेव स्वमतेषु ' त्रिद्वस्यन्ते ' विद्वांस इवाचरन्ति । ते संमारं व्युच्छ्रिताः, विविधमने कप्रकारमुत्प्राबल्येन श्रिताः संसारे सम्बद्धा उषिताः स्युः || २३ || अथ क्रियावादिमतमाह
अहावरं०
X X X ( सू० ) ॥ २४ ॥
व्याख्या - अथाऽपरं 'पूर्वमाख्यातं ' पूर्वपूचितं क्रियावादिदर्शनं किम्भूताः क्रियावादिन १ इत्याह-'कम्मचिंत' चि कर्मणि ज्ञानावरणादिके चिन्ता कर्मचिन्ता, ततः 'प्रणष्टा' अपगता, यतस्ते चतुर्विधं कर्मबन्धं नेच्छन्ति, ततः कर्मचिन्ताप्रणष्टास्तेषामिदं मतं संसारस्य प्रवर्द्धनं स्यात् ॥ २४ ॥ कर्मचिन्तानष्टत्वमेवाह