________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ६॥
दर्शस्य रात्रिसदृशे कलिकालमध्ये, प्रेमामृतेन विलसत्परिपूर्णचन्द्रः । लोकोत्तरास्वनितदर्शितसार्वकक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥४॥ वैराग्यनीरजलधि-र्निकटस्थसिद्धिः, संसारतारणतरी शमसौख्यशाली । स्वर्गापवर्गफलदः कलकल्पवृक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥५॥ ऐदंयुगीनसमयेऽपि महाचरित्रः कन्दर्पदर्पहरणः परिपूर्णशीलः । मन्ये करालकलिकालजवीतरागः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥६॥ अत्यन्तनिःस्पृहमनः कृतदभ्ररागः, सन्तोषकेसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥७॥ क्वाऽहं भवद्गुणसमुद्रतलं यियासुः, नाऽहं भवत्स्तुतिकृतेऽस्मि समर्थबुद्धिः । नाऽहं भवत्पुनितपादरजोऽप्यरे ! ऽस्मि, कल्याणबोधिफलदातृतरो ! नतोऽस्मि ॥८॥
॥ ६ ॥