________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४३२॥
(शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वर श्रुतयुतः सर्वागमानां गृहम् । तकें तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ॥५॥ तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बढेशेन निवारितः खकरखौ-ष्ठे पिण्डवाडापुरे ॥६॥
(वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-मतिमच्छरण्यः ॥७॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तप:श्रुतसमर्पणतेजसा सः । पन्न्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥८॥ सर्वाधिकश्रमणसार्थपतिर्मतीशः, पाता चतुःशतमितर्षिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघोषसूरिः, 'सिद्धान्तसूर्य' - यशसा जयतीह चोच्चैः ॥९॥
॥४३२ ॥