SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ।। श्रीआचाराङ्ग प्रदीपिका ॥ ॥ श्रीपिण्डैषणाध्ययनस्य षष्ठोद्देशकः समाप्तः ।। ।। २/१/१/७॥ स भिक्षुर्गृहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरि निक्षिप्तं तथा प्रकारं ज्वालासम्बद्धं लाभे सति न प्रतिगृह्णीयात् । अत्रैव दोषमाह-केवली ब्रूयादादानं- कर्मादानमेतदिति तथाहि-असंयतः-गृहस्थो भिक्षुप्रतिज्ञया तत्राग्न्युपरिव्यवस्थितमाहारम् उत्सिञ्चन् - आक्षिपन् निःसिञ्चन् - दत्वोद्धरितं प्रक्षिपन्, तथा आमार्जयन् - सकृद्धस्तादिना शोधयन्, प्रकर्षणामार्जयन् - शोधयन्, 'उत्तारेमाणे वा' अवतारयन् प्रवर्तयन् - तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्यात् । अह भिक्खूणं ति अथ अनन्तरं भिक्षूणां-साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेषः यत्तथाप्रकारमग्निसम्बद्धमशनाद्यग्निनिक्षिप्तमप्रासुकमनेषणीयमिति ज्ञात्वा लाभे 8.8 सति न प्रतिगृह्णीयात् । एतद् भिक्षोः सामग्यम् - समग्रो भिक्षुभावः ।। ३६ ॥ ॥ श्रीपिण्डैषणाध्ययनस्य षष्ठोद्देशकप्रदीपिका समाप्ता ।। ॥श्रीपिण्डैषणाध्ययने सप्तमोद्देशकः॥ षष्ठोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना, तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यते - से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा - असणं वा ४ खंधसि वा थंभंसि वा मंचंसि वा मालंसि वा 8.3 ॥४९॥ १ तत्राप्युपरि पा.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy