SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/५॥ ___स भिक्षुर्भिक्षार्थं प्रविष्टः सन्मार्ग प्रत्युपेक्षेत, तत्र यदि अन्तरा-अन्तराले 'से' तस्य- भिक्षोर्गच्छत एतानि स्युः, तद्यथा- 'वप्पाणि 48 ॥ श्रीआचाराङ्ग वा' वप्राः- समुन्नता भूभागा ग्रामान्तरे वा केदाराः, परिखा वा प्राकारा वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वा, प्रदीपिका ॥ अर्गलपाशका वा - यत्रार्गलाऽग्राणि निक्षिप्यन्ते,' एतानि चान्तराले ज्ञात्वा 'सति परक्कमे'त्ति प्रक्रम्यतेऽनेनेति प्रक्रमो - मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन पराक्रमेत - गच्छेत्, नैवर्जुना गच्छेत् । किमिति ? यतः केवली ब्रूयाद् - आदानं कर्मादानमेतत् संयमात्मविराधनातः, तामेव दर्शयति, - 'से तत्थ परक्कममाणे' त्ति स - भिक्षुस्तत्र तस्मिन् वप्रादियुक्ते मार्गे पराक्रममाण:- गच्छन् विषमत्वान्मार्गस्य कदाचित् प्रचलेत्- कम्पेत प्रस्खलेद्वा तथा प्रपतेद्वा, [सा तत्र प्रस्खलन् प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत्, 'तत्थ से काए' त्ति तत्र से' तस्य कायः-शरीरमुच्चारेण वा प्रस्रवणेन वा श्लेष्मणा वा सिद्धानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वोपलिप्तः स्यादत एवम्भूतेन यथा न गन्तव्यम् अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाद्युपलिप्तकायो नैवं कुर्यात्, तदेव दर्शयति-तहप्पगारं कार्य'ति स यतिस्तथाप्रकारम् अशुचिकर्दमाद्युपलिप्तकायमनन्तर्हितया- अव्यवहितया पृथिव्या तया सस्निग्धया - आर्द्रया - सरजस्कया वा, चित्तवत्या- सचित्तया R शिलया, तथाचित्तवता लेलुना - पृथिवीशकलेन, एवं कोलाघुणास्तदावासभूते दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्सन्तानके TR मनो- नैव सकृदामृज्यान्नापि पुनः पुनः प्रमृज्यात्, कर्दमादि शोधयेत्, तया तत्रस्थ एव 'संलिहेज्ज वा' न संलिखेत्, नोद्वर्तनादिनोबलेत्, नापि तदेवेषच्छुष्कमुद्वर्त्तयेत्, नापि तत्रस्थ एव सकृदातापयेत्, पुनः पुनः वा प्रतापयेत् । 00000000000000000 ॥ ३५॥ १ निक्षिपन्ते - बृ.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy