________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
ܘܘܘ
तस्य (तू) पट्टे सिद्धान्तस्वर्णपरीक्षाकषोपलप्रख्याः । श्रीजिनभद्रयतीन्द्राः श्रीजिनचन्द्राश्च तत्पट्टे ॥ ७ ॥ प्रयोद्वेधं (ये द्वैधं) अमलशीलाः प्रियगुणिनो दुरमस्व (स्त) दुःशीला । श्रीजिनसमुद्रसूरिप्रवरास्ते तदनु सञ्जञ्जुः ।। ८ ।।
( इन्द्रवंशा ) तत्पादपङ्केरुहभृङ्गसन्निभाः, तत्स (से) वनासादितशास्त्रसौरभाः । तच्छिष्यलेशा गुणिभिः समादृता, गणाधिपाः श्रीजिनहंससूरयः ॥ ९ ॥
( आर्या )
श्रीलूणकर्णराज्ये मन्त्रीश्वरकर्मसिंहसङ्घपतौ । श्रीमद्विक्रमनगरे गुणमुनिश रे [र] चन्द्रमिभ (त) (१५७३) वर्षे ।। १० ।। ( इन्द्रवंशा)
सद्वृत्तिशास्त्रादिविहारकारिणां महात्मनां निर्मलदेहधारिणां ।
ज्ञान- क्रियाभ्यासवतां हि तेषां कुलोद्भवैः श्रीजिनहंससूरिभिः ॥ ११ ॥
( आर्या )
आचारदीपिकेयं विनिर्मिता देवकुलिकया तुल्या । अल्पावबोधयतिगणमतिदैवतसंनिवेशकृते ॥ १२ ॥
11 2/3/2/11
।। २५९ ।।