________________
॥ श्रीआचारान प्रदीपिका ॥
भिक्खू वा २ से ज्जं पुण थंडिलं जाणे [ ज्जा ] अणंतरहिताए पुढवीए, ससणिद्धाए पुढवीए, ससरक्खाए पुढवीए, मट्टियाकडाए, चित्तमंताए सिलाए, चित्तमंताए लेलुए, कोलावासंसि वा, दारुयंसि वा, जीनपतिट्ठितंसि जाव मक्कडासंताणयंसि, अण्णतरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चार पासवणं वोसिरेज्जा ।। (सू. १६५ )
स भिक्षुः कदाचिदुच्चारप्रश्रवणकर्त्तव्यतयोत् प्राबल्येन बाध्यमानः स्वकीयपादपुञ्छन समाध्यादावुच्चारादिकं कुर्यात्, | स्वकीयस्याभावेऽन्यं साधर्मिकं साधुं याचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकं समाध्यादिकं', परं वेगधारणं न कर्त्तव्यम् ।
स भिक्षुरुच्चारप्रश्रवणशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत्, तस्मिंश्च साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुर्यात् ।
स भिक्षुरपाण्डादिके प्रासुके स्थण्डिलमुच्चारादि कुर्यात् ।
स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - एकं बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित् स्थण्डिलं कुर्यात् श्रमणादीन् प्रगणय्य वा कुर्यात्, तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यात्
L
-
भिक्षुर्यावन्ति स्थण्डिलेऽपुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यात् ।
स भिक्षुः साधुमुद्दिश्य क्रीतादावुतरगुणाशुद्धे स्थण्डिले उच्चारादि न कुर्यात् ।
१ नकस - बृ ।
१. ॥ २/२/३ ॥
॥ २०३ ॥