________________
उद्देशकान्तं यावत् शय्याध्ययनवत्, नवरं अवग्रहाभिलापेन नेयम् ।। १५८ ।। ॥ श्रीआचाराङ्ग ॥ श्रीअवग्रहप्रतिमाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता ।।
॥२/१/७/२॥ प्रदीपिका ॥
॥श्रीअवग्रहप्रतिमाध्ययने द्वितीयोद्देशकः॥ प्रथमोद्देशकेऽवग्रहः प्रतिपादितः, द्वितीयस्तच्छेषप्रतिपादनायोद्देशकः, तस्य चेदमादिसूत्रम् -
से आगंतारेसु वा ४ अणुवीई उग्गहं जाएज्जा । जे तत्थ ईसरे जे समाधिट्ठाए ते उग्गहं अणुण्णवित्ता [ज्जा -कामं खलु 88 आउसो ! अहालंदं अहापरिण्णातं वसामो, जाव आउसो, जाव आउसंतस्स उग्गहे, जाव साहम्मिया, एताव उग्गहं न ओगिव्हिस्सामो, तेण परं विहरिस्सामो।
से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि? जे तत्थ समणाण वा माहणाण वा दंडए वा छत्तए वा जाव चम्मछेदणए वा तं णो अंतोहितो बाहिं णीणेज्जा, बहियाओ वा णो अंतो पवेसेज्जा, सुत्तं वा णं पडिबोहेज्जा, णो तेसिं किंचि वि अप्पत्तियं गृह पडिणीयं करेज्जा॥ (सू.१५९) 88 स भिक्षुरागन्तागारादावपरब्रह्मणाद्युपभोगसामान्ये कारणिकः सन्नीश्वरादिकं पूवोक्तक्रमणावग्रहं याचेत, तस्मिंश्चावग्रहेऽवगृहीते 88
यत्तत्र श्रमणब्राह्मणादीनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिर्निष्क्रामयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्तं प्रतिबोधयेत् न च तेषाम् ‘अप्पत्तियंति मनसः पीडां कुर्यात् तथा प्रत्यनीकतां-प्रतिकूलतां न विदध्यात् ।। १५९ ॥
॥१८९ ॥