SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका || गण्डमस्यास्तीति गण्डी यदिवोच्छूनगुल्फपादः स गण्डीत्येवं न व्याहर्त्तव्यः, कुष्ठ्यपि न कुष्ठीति व्याहर्त्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधु [मेहीति मधु ] वर्णमूत्रानवरतप्रश्रावी', अत्र यावत्शब्देन धूताध्ययनोक्ता व्याधिविशेषा ज्ञेयाः, एवं छिन्नहस्तपादनासिकाकर्णौष्ठादयः, तथाऽन्ये च तथाप्रकारा काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ताः कुप्यन्ति मानवाः तांस्तथाप्रकाराभिर्वाग्भिराकाक्ष्य नो भाषेत । यथा च भाषेत तथाऽऽह-स भिक्षुर्यद्यपि गण्डीपदादिव्याधिग्रस्तं पश्येत्तथापि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेत्, केशववत् कृष्णश्वशुक्लदन्तगुणोद्धट्टनवद्गुणग्राही भवेत् । स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत्तद्यथा - वप्राः प्राकारा यावद्गृहाणि, तथाऽप्येतानि नैवं वदेत्, तद्यथा-सुकृतमेतत्, सुष्ठु कृतमेतत् साधु-शोभनं कल्याणमेतत्, कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेत । पुनर्भाषणीयामाह - स भिक्षुर्वप्रादिकं दृष्ट्वाऽपि तदुद्देशेन न किञ्चिद्ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात्, तद्यथामहारम्भकृतमेतत् सावद्यकृतमेतत् प्रयत्नकृतमेतत्, एवं प्रसादनीयादिकां भाषामसावद्यां भाषेत ॥ १३६ ॥ सेभिक्खू वा २ असणं वा ४ उवक्खडियं पेहाए तहा वि तं णो एवं वदेजा, तंजहा सुकडे ति वा, सुठुकडे ति वा, साहुकडे ति वा, कल्लाणे ति वा, करणिजे ति वा । एतप्पगारं भासं सावजं जाव णो भासेजा। १ मधुमेहनोऽनवरत पा. हे । २ केशवकृष्ण-बृ । ॥२/१/४/२ ॥ ।। १५४ ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy