________________
28 भवंति त्ति अक्खाताई॥ (सू. १३२) ॥ श्रीआचाराङ्ग स भावभिक्षुः इमान् - इत्यन्तःकरणनिष्पन्नान्, समनन्तरं वक्ष्यमाणान् वाच्याचारा वागाचारा:- वाग्व्यापारास्तान् श्रुत्वा, तथा ४४॥२/१/४/१ प्रदीपिका ॥ निशम्य-ज्ञात्वा भाषासमित्या भाषां भाषेत । तत्र याद्दग्भूता भाषा न भाषितव्या तत्तावदर्शयति-'इमाइं अणायाराईति इमान् वक्ष्यमाणान् र
अनाचारान् - साधूनामभाषणयोग्यान् पूर्वसाधुभिरनाचीर्णपूर्वान् साधुर्जानीयात्, तद्यथा-ये केचन क्रोधाद्वाचं 'विउंजंति'विविधं व्यापारयन्तिभाषन्ते यथा चौरस्त्वं दासस्त्वमित्यादि, तथा मानेन भाषन्ते यथोत्तमजातिरहं हीनस्त्वमित्यादि, तथा मायया यथा ग्लानोऽहमपरसन्देशक वा सावद्यकं केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातम्, तथा लोभेनाहमनेनोक्तेनातः किञ्चिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्धट्टनेन परुषं वदन्ति अजानाना वा, सर्व चैतत्क्रोधादिवचनं सहावद्येन-पापेन-गर्येण वा वर्तत इति सावा तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावचं वचनं वर्जनीयं, तथा केनचित् साधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा
ध्रुवमेतत् - निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयात् । तथा कथञ्चित् साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं वा गतं - 4. चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथा-भुक्ष्महे वयं स तत्राशनादिकं लब्ध्वैव समागमिष्यति, यदि वा ध्रियते तदर्थं किञ्चित् 88 48 नैवासौ तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यं अथवैवंभूता सावधारणां 28
वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिनो वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वा, एवमत्र पत्तनमठादावपि - भूतादिकालत्रयं योज्यं, यमर्थं सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थः ।
१भुज्महे - बृ. । २ अथ चैवंभूताम् बृ. ।