________________
संसारिजीव. वक्तव्यता।
XOXOXOXOXOXOXOXOXOXOXOXOX
खणमेत्तपीइरोसा, गिहिवच्छलगा य संजइया ॥१॥" 'मायी' स्वस्वभावनिगूहनादिमान , यथोक्तम्-'गुंहइ आय- @ सहावं, घायइ य गुणे परस्स संते वि । चोरो व सवसंकी, गूढायारो वितहभासी ॥ १॥" इदानीं विचित्रत्वात्
सूत्रकृतेर्मोहीप्रस्तावेऽप्यासुरीभावना यत्कुर्वता कृता भवति तदाह –'अणुबद्धे'त्यादि स्पष्टम् । नवरम्-अनुबद्धरोषप्रसरस्वरूपम्-निच्च वुग्गहशीलो, काऊण ण याणुतप्पए पच्छा । न य खामिओ पसीयइ, अवराहीणं दुवेण्हं पि ॥१॥" 'तथा' समुच्चये, 'चः' पूरणे, निमित्तम्-अतीतादि तद्विषये भवति 'प्रतिसेवी' अपुष्टालम्बनेऽपि तदासेवनात् ॥ शस्त्रस्य ग्रहणम्-आत्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं' दीपनमात्मन इति गम्यते, जलप्रवेशः, चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारः-शास्त्रविहितः व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा-हासमोहादिभिः परिभोगः अनाचारभाण्डसेवा, सा च गम्यमानत्वाद् एतानि कुर्वन्तो यतयः 'जन्मजरामरणानि' उपचारात् तत्तन्निमित्तकर्माणि बध्नन्ति इति, अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चाऽर्थतो मोहीभावनोक्ता । यतस्तल्लक्षणम्-"उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता, सम्मोहं भावणं कुणइ ॥ १॥" फलं चाऽऽसाम्-"ऐयाओ भावणाओ, भावित्ता देवदुग्गई जंति । तत्तो य चुया संता, पडंति भवसागरमणंतं ॥ २॥” इति सूत्रपश्चकार्थः ॥ २६३-२६४२६५-२६६-२६७ ।। सम्प्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाहक्षणमात्रप्रीतिरोषाः गृहिवस्सलाश्च संयताः॥१॥" : "गूहते आत्मस्वभावं घातयति च गुणान् परस्य सतोऽपि । चौर इव सर्वशङ्की, गूढाकारो वितथभाषी ॥॥" २ "नित्यं व्युद्दहशीलः कृत्वा न चानुतप्यते पश्चात् । न च क्षामितः प्रसीदति अपराधिनोईयोरपि ॥१॥" ३"उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिः । मोहेन च मोहयित्वा सम्मोही भावनां करोति ॥1॥" "एता भावना भावयित्वा देवदुर्गतिं यान्ति । ततश्च च्युताः सन्तः पतन्ति भवसागरमनन्तम् ॥ १॥"
FOXOXOXOXOXOXOXOXOXOXOXOX
उ०