SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृतिः । ॥ ३८९ ॥ सम्मर्द्दसणरत्ता, अणियाणा सुक्कलेस मोगाढा । इय जे मरंति जीवा, सुलहा तेसिं भवे बोही ॥ २५८॥ मिच्छादंसणरत्ता, सनियाणा कण्हलेसमोगाढा । इय जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥ २५९॥ व्याख्या - "कंदप्प” त्ति उपलक्षणत्वात् कन्दर्पभावना, एवमाभियोग्यभावना, किल्बिषिकभावना, मोहभावना, आसुरत्वभावना च एता भावना दुर्गतिहेतुतया दुर्गतयः, एतद्विधातृणां तद्विधसुरेष्वेवोत्पादात्, 'मरणे' मरणसमये कीदृश्यः सत्यः ? इत्याह - विराधिकाः सम्यग्दर्शनादीनामिति गम्यते । मरण इत्यभिधानं चेह पूर्वमेतत्सत्तायामप्युतरकालं शुभभावभावे सुगतेरपि सम्भवात् शेषं सुगमम् ॥ इह चाऽऽद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपाऽनर्थस्य हेतुत्वमुक्तम्, अर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपार्थस्य, द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणाऽनर्थस्य, तृतीयेन सम्यग्दर्शन रक्तत्वादीनां सुलभबोध्यात्मकार्थस्य, चतुर्थेन तूक्तनीत्या मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापन| मिति सूत्रचतुष्टयार्थः ॥ २५६-२५७-२५८-२५९ ॥ जिनवचनाराधनामूलमेव सकलं संलेखनादि श्रेयः, अतस्तत्रैवाssदरख्यापनार्थमन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह - जिणवयणे अणुरत्ता, जिणवयणं जे करिंति भावेण । अमला असंकिलिट्ठा, ते हुंति परित्तसंसारा ॥ बालमरणाणि बहुसो, अकाममरणाणि चैव य बहूणि । मरिहंति ते वराया, जिणवयणं जे न याणंति ॥ व्याख्या—स्पष्टम् । नवरम् — ' अमला ः ' श्रद्धानादिमालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथा ‘असङ्किष्टाः’ रागादिसङ्केशमुक्ताः || 'बालमरणैः' उद्बन्धनादिनिबन्धनैः 'अकाममरणैश्च' अनिच्छामरणैः बहुभिः, सर्वत्र सुव्यत्ययः १ परीतः - समस्तदेवादिभवाऽहपताऽऽपादनेन समन्तात् परिमितः संसारो विद्यते येषां ते परीतसंसारिणः कतिपय भवाऽभ्यन्तरमुक्तिभाज इत्यर्थः । षट्त्रिंशं जीवाजीवविभक्ति नामकम ध्ययनम् । संसारिजीव वक्तव्यता । ॥ ३८९ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy