SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ अथ चतुस्त्रिंशं लेश्याख्यमध्ययनम् । लेश्यानां नामादिद्वाराणि । अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थ चतुत्रिंशं लेश्याध्ययननामकमध्ययनमारभ्यते, अस्य चेदमादिसूत्रम्लेसज्झयणं पवक्खामि, आणुपुच्विं जहक्कम । छण्हं पि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥ ___ व्याख्या-लेश्याऽभिधायकमध्ययनं लेश्याध्ययनं तत् प्रवक्ष्यामि आनुपूर्व्या यथाक्रममिति च प्राग्वत् । तत्र च षण्णामपि 'कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान्' रसविशेषान् शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १॥ एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाहनामाइं वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिइं गई च आउं, लेसाणं तु सुणेह मे ॥२॥ __ व्याख्या-नामानि तथा वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति पदषट्स्य समाहारनिर्देशः। परिणामश्चाऽत्रजघन्यादिः, लक्षणं च-पश्चाश्रवासेवनादि, 'स्थानम्' उत्कर्षाऽपकर्षरूपं, 'स्थितिम्' अवस्थानकालं, 'गति' नरकादिकां यतो याऽवाप्यते, 'आयुः' जीवितं यावति तत्राऽवशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां, 'तु' पूरणे, शृणुत मे इति सूत्रार्थः ॥२॥ 'यथोद्देशं निर्देशः' इति न्यायतो नामान्याह लिश्यते-श्लिप्यते आत्मा कर्मणा सहाऽनयेति लेश्या, कृष्णादिद्रव्यसाचिज्यादात्मनः परिणामविशेषः, यदुक्तम्-कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy