________________
कर्मणां कालपरिमाण भावश्च ।
ज्ञानावरणादि न त्वन्यतरदेव 'सर्वेण गम्यमानत्वात् प्रकृतिस्थित्यादिना प्रकारेण बद्धं-क्षीरोदकवद् आत्मप्रदेशैः श्लिष्टं | तदेव बद्धकमिति सूत्रार्थः ॥ १८॥ सम्प्रति कालमाहउदहीसरिसनामाणं, तीसई कोडिकोडीओ । उक्कोसिया होइ ठिई, अंतमुहुत्तं जहनिया ॥ १९॥ आवरणिजाण दुण्हं पि, वेयणिज्जे तहेव य । अंतराए य कम्मम्मि, ठिई एसा वियाहिया ॥ २० ॥ उदहीसरिसनामाणं, सत्तरं कोडकोडीओ। मोहणिज्जस्स उक्कोसा, अंतमुहुत्तं जहन्निया ॥ २१ ॥ तित्तीस सागरोवम, उक्कोसेणं वियाहिया । ठिई उ आउकम्मस्स, अंतमुहुत्तं जहन्निया ॥२२॥ उदहीसरिसनामाणं, वीसई कोडकोडीओ । नामगोआण उक्कोसा, अंतमुहुत्तं जहन्निया ॥ २३ ॥
व्याख्या-स्पष्टम् । नवरम्-उदधिना सह-सदृशं नाम येषां तानि उदधिसदृगनामानि-सागरोपमाणि तेषाम् ॥ १९-२०-२१-२२-२३ ॥ सम्प्रति भावमभिधातुमाहसिद्धाणऽणंतभागे, अणुभागा हवंति उ । सवेसु वि पएसग्गं, सबजीवेसऽइच्छियं ॥ २४ ॥ | व्याख्या-सिद्धानामनन्तभागे 'अनुभागाः' रसविशेषा भवन्ति, 'तु:' पूरणे, अयं चाऽनन्तभागोऽनन्तसङ्ख्य एवेति । तथा 'सर्वेष्वपि' प्रक्रमादनुभागेषु, प्रदिश्यन्त इति प्रदेशा:-बुद्ध्या विभज्यमानास्तविभागैकदेशास्तेषामग्र प्रदेशानं "सबजीवेसऽइच्छियं" ति सर्वजीवेभ्योऽतिक्रान्तम् , ततोऽपि तेषामनन्तगुणत्वादिति सूत्रार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारव्याजेनोपदेष्टुमाह
उ०म०६२