SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ क्रियते, कीदृशस्य पुनरस्य किमर्थं चैवंविधप्रयोजनानि जायन्ते ? इत्याह- सुखैषिणो दुःखविनोदनार्थम्, कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीन एव स्याद् ? अत उच्यते- 'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं 'उद्यच्छति च' उद्यच्छत्येव, कोऽर्थः ? तत्प्रवृत्तावुत्सहत एव रागी, उपलक्षणत्वाद् द्वेषी च सन्, रागद्वेषयोरेव सकलाऽनर्थपरम्पराकारणत्वादिति सूत्रार्थः ॥ १०५ ॥ किमिति रागद्वेषवशत एव सकलाऽनर्थपरम्परोच्यते ? इत्याशङ्कयाह— विरज्यमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा । न तस्स सबै वि मणुन्नयं वा, निवत्तयंती अमणुन्नयं वा ॥ १०६ ॥ व्याख्या - विरज्यमानस्य उपलक्षणत्वाद् अद्विषतश्च, 'च' पुनरर्थे, ततो विरज्यमानस्याऽद्विषतश्च पुनः 'इन्द्रि यार्थाः ' शब्दादिकाः तावन्त इति - यावन्तो लोके प्रतीताः प्रकाराः - खरमधुरादिभेदा येषां ते तावत्प्रकारा बहुभेदा इत्यर्थः, न ' तस्ये 'ति मनुजस्य सर्वेऽपि मनोज्ञतां वा 'निर्वर्त्तयन्ति' जनयन्ति अमनोज्ञतां वा, किन्तु रागद्वेषवशत एव, स्वरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्त्तुमात्मनः क्षमाः किन्तु रक्तेतरप्रतिपत्रध्यवसायवशात् । उच्यते चान्यैरपि - परिव्राट् कामुक शुनामेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥ १ ॥ ततो न वीतरागस्य मनो - ज्ञताममनोज्ञतां वा निर्वर्त्तयेयुः, तदभावे च कथं विषयसेवनाऽऽक्रोशदानादिप्रयोजनोत्पत्तिः ? इति सूत्रार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोरतिदुष्टत्वात् साक्षान्मोहस्य च तदाऽऽयतनत्वात् तद्द्वारेणोद्धरणोपायान् निरूप्योपसंहरन्नाह— एवं ससंकष्पविकप्पणासुं, संजायई समयमुवट्ठियस्स । अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ १०७ ॥ व्याख्या- 'एवम्' उक्तप्रकारेण स्वस्य - आत्मनः सङ्कल्पाः - रागद्वेष मोहरूपा अध्यवसायास्तेषां विकल्पना:- सकल प्रमादस्य स्थानानि ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy