SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशं श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा- ख्या लघुवृत्तिः । ॥३६१॥ *OXOXOXOXOXOXOXOXOXOXOX8* रूपाऽनुरागी। पठन्ति च-"रूवाणुरागेणं" ति तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन, शेषं तथैव, स्यादेतत्मा भूदुत्पादनादिषु रूपस्य सुखं, सम्भोगकाले भविष्यतीत्याशङ्कयाह-सम्भोगकाले च 'अतृप्तिलाभे' तृप्तिप्राप्त्यभावे क्क प्रमादस्थासुखम् ? इति सम्बन्धः, उत्तरोत्तरेच्छया हि खिद्यत एव रागी ॥ आह–एवं परिग्रहाद् दुःखमनुभवतस्तद्भीरुतया ततो नाख्यमनिवृत्तिर्दोषान्तरानारम्भणं वा किमस्य सम्भवतीत्याशङ्कयाह-रूपेऽतृप्तः चस्य भिन्नक्रमत्वात् 'परिग्रहे च' तद्विषयमूर्छा ध्ययनम् । त्मके सक्तः-सामान्येनैवासक्तिमान् उपसक्तश्च-गाढमासक्तस्ततः सक्तश्च पूर्वम् उपसक्तश्च पश्चात् सक्तोपसक्तः नोपैति प्रमादस्य तुष्टिम् , तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन 'दुःखी' यदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान् स्थानानि । सन् , किं कुरुते ? इत्याह-परस्य सम्बन्धि रूपवद्वस्त्विति गम्यते 'लोभाविलः' लोभकलुषः आदत्तेऽदत्तम् ॥ तत्किमस्यैतावानेव दोष उताऽन्योऽपि ? इत्याशङ्कयाह-तृष्णाऽभिभूतस्य' लोभपराजितस्य, तत एवाऽदत्तहारिणो | 'रूपे' रूपविषयो यः परिग्रहस्तस्मिन्निति योगः चस्य भिन्नक्रमत्वाद् अतृप्तस्य च मायाप्रधानं "मोसं" ति 'मृषा' अलीकभाषणं मायामृषा वर्द्धते, कुतः पुनरिदमित्थम् ? इत्याह-लोभदोषात् , लुब्धो हि परखमादत्ते आदाय च तद्गोपायनपरो मायामृषां वक्ति, तत्राऽपि को दोषः? इत्याह-'तत्राऽपि' मृषाभाषणेऽपि दुःखान्न विमुच्यते सः॥ दुःखाऽविमुक्तमेव भावयति-"मोसस्स" ति अनृतभाषणस्य पश्चाच्च पुरस्ताच्च प्रयोगकाले च दुःखी सन्, तत्र पश्चादिदं न मया सुसंस्थापितमुक्तमिति पश्चात्तापतः पुरस्ताच्च कथमयं मया वश्चनीय इति चिन्तया प्रयोगकाले च* नासौ ममालीकभाषितां लक्षयतीति क्षोभतः, तथा दुष्टोऽन्तः-पर्यन्तः तज्जन्मन्यनेकविडम्बनातोऽन्यजन्मनि च नरका- ॥३६१॥ दिप्राप्त्या यस्यासौ दुरन्तो भवति जन्तुरिति गम्यते, अथवा 'मोषस्य' स्तेयस्येति व्याख्येयम् ॥ उपसंहारमाह| 'एवम्' अमुना प्रकारेण अदत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितो भवति, कीदृशः सन् ? इत्याह-'अनिश्रः' XOX8XXXXX XXOXOXXX
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy