________________
त्रिसप्तिपदानां फलनिरूपणम्।
यित्वा अन्तर्मुहूर्ताऽवशेषायुष्को योगनिरोधं "करेमाणे" त्ति करिष्यमाणः सूक्ष्मक्रियम् अप्रतिपाति 'शुक्लध्यान' तृतीयभे- IS दरूपं व्यायन तत्प्रथमतया मनोयोगं निरुणद्धि, वाग्योगं निरुणद्धि, काययोग निरुणद्धि, आनापानौ-उच्छास-निःस्वासौ
तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणमेतत् , तत ईषदिति-स्वल्पप्रयत्नापेक्षया पश्चानां इस्वाक्षराणां 'अ इ उ ऋल' इत्येवंरूपाणामुच्चारः-भणनं तस्याऽद्धा-कालः ईषत्पञ्चाक्षरोच्चारणाद्धा तस्यां च 'ण' प्राग्वत्, अनगारः समुच्छिन्नक्रियम् अनिवर्ति 'शुक्लध्यानं चतुर्थभेदरूपं ध्यायन् वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि, "कम्मंस" ति सत्कर्माणि युगपत् क्षपयति ॥७२॥ 'ततः' वेदनीयादिक्षयानन्तरं "ओरालियकम्माई च" त्ति 'औदारिक-कार्मणे' शरीरे, चशब्दात् तैजसं च सर्वामिः विशेषेण-प्रकर्षतो हानयः-त्यागा विप्रहाणयः व्यक्त्यपेक्षं बहुवचनं ताभिः, किमुक्तं भवति ?सर्वथा शाटनेन 'विप्रहाय' परिशाट्य ऋजुः-अवका श्रेणिः-आकाशप्रदेशपतिस्तां प्राप्त ऋजुश्रेणिप्राप्तः, अस्पृशद्गतिरिति, कोऽर्थः ? स्वावगाहातिरिक्तनभःप्रदेशान् अस्पृशन् एकसमयेन 'अविग्रहेण' अवक्रेण अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति ऋजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरभिधानम् , 'तत्रे'ति विवक्षिते मुक्तिपद इत्यर्थः गत्वा साकारोपयुक्तः सिध्यतीति प्राग्वत् ॥ ७३ ॥ उपसंहर्तुमाह
एसो खलु सम्मत्तपरक्कमस्स अज्झयणस्स अहे समजेणं भगवया महावीरेणं
आघविए पन्नविए परूविए दंसिए निदंसिए उवदंसिए त्ति बेमि ॥ ७४॥ all व्याख्या-एषः अनन्तरोक्तः 'खलु' निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण
"आपविए" ति आर्षत्वादु' 'आख्यातः' सामान्यविशेषपर्यायाभिव्याप्तिकथनेन, . 'प्रज्ञापितःहेतुफलादिप्रज्ञापनेन,
IXOXOXOXOXOXXX
XOXOXRX