________________
BXXXXXXXXXXXX@
धणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा।
पण्णाम् तव कए तप्पइ जस्स लोओ, त सव साहीणमिहेव तुज्झं ॥१६॥
इषुकार
राजादीनां व्याख्या-धनं प्रभूतं सह 'स्त्रीभिः 'स्वजनाः' पितृ-पितृव्यादयः, तथा कामगुणाः "पकाम" त्ति प्रकामाः 'तपः।
वक्तव्यता। कष्टानुष्ठानं 'कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेर्लोकः तत् सर्व स्वाधीनम् 'इहैव' अस्मिन् गृहे "तुझं" ति | युवयोरिति सूत्रार्थः ॥ १६ ॥ तो आहतुः
धणेण किं धम्मधुराहिगारे?, सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सामु गुणोहधारी, बहि विहारा अभिगम्म भिक्खं ॥१७॥ व्याख्या-धनेन किम् ?, न किञ्चित् 'धर्मधुराधिकारे' तत्प्रस्तावे, स्वजनेन वा कामगुणैश्चैव, ततः श्रमणौ भविष्यावः 'गुणौधधारिणौ' क्षमादिगुणसमूहधारको, बहिर्मामादिभ्यो विहारो ययोस्ती बहिर्विहारौ अप्रतिबद्धविहारावित्यर्थः 'अभिगम्य' आश्रित्य भिक्षामिति सूत्रार्थः ॥ १७ ॥ आत्मास्तित्वमूलत्वात् सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितः
जहा य अग्गी अरणीउऽसंतो, खीरे घयं तिल्लमहा तिलेसु।
एमेव जाया सरिरम्मि सत्ता, सम्मुच्छई णासइ णावचिठे ॥१८॥ व्याख्या-यथैव चस्यावधारणार्थत्वात् 'अग्निः' "अरणिउ" ति 'अरणितः' अग्निमन्थनकाष्ठात् 'असन्' अविद्यमान एव सम्मूर्च्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव हे जातो! शरीरे सत्त्वाः “सम्मुच्छइ" त्ति 'सम्मूर्च्छन्ति'
१ यद्यपि तयोस्तदा स्त्रियो न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानम् ।