________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीयासुखबोधाख्या लघुवृत्तिः ।
एकादर्श बहुश्रुतपूजाख्यमध्ययनम्।
बहुश्रुतस्तवः।
॥१६९॥
XXXXXXXXXXX6X6Y
चाम्लतां भजते, नापि च परिस्रवति । 'एवम्' अनेन प्रकारेण बहुश्रुते "भिक्खु" त्ति आर्षत्वाद् 'मिक्षौ' तपस्विनि 'धर्मः' यतिधर्मः कीर्तिः' श्लाघा तथा 'श्रुतम्' आगमो विराजते इति सम्बधः। किमुक्तं भवति?-यद्यपि धर्म-कीर्ति-श्रुतानि | निरुपलेपतादिगुणेन स्वयं शोभाभाञ्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शो इव बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते, तानि हि न तत्र मालिन्यम् अन्यथाभावं हानि वा कदाचन प्रतिपद्यन्ते इति सूत्रार्थः॥१५॥ पुनर्बहुश्रुतस्तवमाह
जहा से कंबोयाणं, आइन्ने कथए सिया । आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥ १६ ॥ _ 'यथा' येन प्रकारेण 'सः' इति प्रतीतः 'कम्बोजानां' कम्बोजदेशोद्भवानां प्रक्रमादश्वानां मध्ये 'आकीर्णः' व्याप्तः शीलादिगुणैरिति गम्यते, 'कन्थकः' प्रधानोऽश्वः, यः किल दृषच्छकलभृतकुतुपनिपतनध्वनेन सबस्यति, 'स्यात्' भवेत् 'अश्वः' तुरङ्गमः 'जवेन' वेगेन 'प्रवरः' प्रधानः । 'एवम्' इत्युपनये, तत ईदृशो भवति बहुश्रुतः, सोऽप्यन्ययतीनां शीलादिमिर्गुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥ किं च__ जहाऽऽइन्नसमारूढो, सूरे दढपरक्कमे । उभओ णंदिघोसेणं, एवं हवइ बहुस्सुए ॥ १७ ॥
व्याख्या-यथा आकीर्ण-जात्यादिगुणोपेतं तुरङ्गमं समारूढः-अध्यासितः आकीर्णसमारूढः 'शूरः' चारभटः |'दृढपराक्रमः' गाढपराक्रमः "उभओ" त्ति 'उभयतः' वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिर्घोषात्मकेन । एवं भवति बहुश्रुतः। किमुक्तं भवति ?-यथैवंविधः शूरो न केनचिदभिभूयते, न चान्यस्तदाश्रितः तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्तः तद्विजयं च प्रति समर्थः उभयतश्च दिनरजन्योः स्वाध्यायघोष
॥१६९॥