SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ मस्य हेमन्ते चतुर्षु भागेषु शुष्केषु सत्सु ग्रहणं, तथा तस्यैव मध्यमस्य वर्षाकाले पञ्चसु भागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यं, तथा वृद्धपुरुषस्योष्णकाले चतुर्षु भागेषु शुष्केषु सत्सु ग्रहणं कर्त्तव्यं, तस्यैव वृद्धस्य हेमन्ते पञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव वृद्धस्य वर्षाकाले षट्सु भागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यं । नपुंसकस्य पुनस्त्रिभागेष्वारब्धं सप्तमभागेषु संतिष्ठते, एतदुक्तं भवति - सर्वस्मिन् हस्ते शुष्के सति ग्रहणं कर्त्तव्यं भवति, तत्र चेयं भावना - तरुणनपुंसकस्योष्णकाले त्रिषु भागेषु शुष्केषु भिक्षाग्रहणं कल्पते, तस्यैव तरुणनपुंसकस्य हेमन्तकाले चतुर्षु भागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यं, तस्यैव वर्षाकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, मध्यमस्य नपुंसकस्योष्णकाले चतुर्षु भागेषु शुष्केषु ग्रहणं, तस्यैव च हेमन्त - काले पञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव च वर्षाकाले षट्सु भागेषु शुष्केषु ग्रहणं, वृद्धनपुंसकस्योष्णकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव हेमन्तकाले षट्सु भागेषु शुष्केषु भिक्षाग्रहणं, तस्यैव वृद्धनपुंसकस्य वर्षाकाले सप्तस्वपि सप्तभागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यमिति । एवमेकैकवृद्ध्या ग्रहणमुक्तं, पश्चानुपूर्व्या तु एकैकभागहान्या भिक्षाग्रहणं वेदितव्यं, तच्चैवं - स्थविरनपुंसकस्य वर्षाकाले सप्तभिरपि हस्तभागैः शुष्कैर्गृह्यते भिक्षा, तस्यैव शीतकाले पडिर्भागैः शुष्कैर्गृह्यते, तस्यैवोष्णकाले पञ्चभिर्भागैः शुष्कैर्गृह्यते, एवमनया हान्या तावन्नेतव्यं यावत्तरुणी स्त्रीति । उक्तं त्रिविधद्वारं, भावद्वारप्रतिपादनायाह य हो होइ भावो लोइयलोउत्तरो समासेणं । एक्किकोवि य दुविहो पसत्थओ अप्पसत्थो य ॥ ४९४ ॥ द्विविधो भवति भावः - लौकिको लोकोत्तरश्चेति, समासतः पुनरेकैको द्विविधः - प्रशस्तोऽप्रशस्तश्च, लौकिकः प्रशस्तोs -
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy