SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ अत्र हस्ते सस्निग्धं किश्चित् प्रम्लानं मनाशुष्कं तथा 'अवाणं'ति आव्यानमुद्वानं किञ्चित्सस्निग्धं 'किश्चिच होअणुवाणं ति किञ्चिच्च स्निग्धमनाव्यानमनुद्धानम्, एवं त्रिविधमप्येतत्सर्व प्रायेण सस्निग्धमुच्यते, एवमेतद्विभाव्य तत एकैकशुष्क भागवृद्ध्या ग्रहणं कर्त्तव्यं पूर्वानुपूर्व्या, तथा एकैकशुष्कभागहान्या वा पश्चानुपूर्व्या गृह्णाति भिक्षां । सा एकैकभागवृद्धिः कथं कर्त्तव्येत्यत आह सत्तविभागेण करं विन्भाइत्ताण इत्थिमाईणं । निचुन्नयइयरेवि य रेहा पत्रे करतले य ॥ ४८९ ॥ 'सप्त विभागान्' सप्तधा 'करं' हस्तं 'विभज्य' विभागीकृत्य, केषां ? - ख्यादीनां ते च विभागा एतानङ्गीकृत्य कर्त्तव्याः के च ते ? - 'निम्नोन्नतेतरे' तत्र निम्नं त्वङ्गुलिपर्वरेखा उन्नतमङ्गुलिपर्वाणि इतरत्- करतलं नोन्नतं नापि निम्नं । इदानीं केन शुष्केन प्रदेशेन कः प्रदेशः प्रम्लानो भवति ? केन वा प्रम्लानेन प्रदेशेन कः सार्द्रः प्रदेशो भवतीत्यस्यार्थस्य ज्ञापनार्थमाह जाय उन्नयाई उच्चाणाई हवंति हत्थस्स । ताहे तलपवाणा लेहा पुण होतऽणुवाणा ॥ ४९० ॥ यदा उन्नतानि हस्तस्थानानि उद्धानानि भवन्ति तदा हस्ततलं प्रम्लानं मनाक् शुष्कं भवति रेखास्तु भवन्त्यनुद्धानाः । इदानीं शुष्कहस्तस्थानानामेकैकवृद्ध्या यथा यस्मिन् काले ग्रहणं भवति तथा प्रदर्शयन्नाह - तरुणित्थि एकभागे पञ्चाणे होइ गहण गिम्हासु । हेमंते दोसु भवे तिसु पवाणेसु वासासु ॥ ४९१ ॥ तरुण्याः स्त्रिय उन्नतसप्तमैकभागे प्रम्लाने शुष्के सति उष्णकाले गृह्यते भिक्षा यतः सोष्मतया कालस्य चोष्णतया
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy