SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ अनूनश्रुतकेवलिश्रीमद्भद्रबाहुस्वामिमिश्रैरुद्धता अखण्डपाण्डित्ययुतश्री द्रोणाचार्य कृतविवृतियुता श्री ओघनिर्युक्तिः नमो अरहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सबसाहूणं, एसो पंचनमुक्कारो, सङ्घपावप्पणासणो । मंगलाणं च सचेसिं, पढमं हवइ मंगलं ॥ १ ॥ अर्हद्भयस्त्रिभुवनराजपूजितेभ्यः, सिद्धेभ्यः सितघनकर्मबन्धनेभ्यः । आचार्यश्रुतधरसर्वसंयतेभ्यः, सिद्ध्यर्थी सततमहं नमस्करोमि ॥ १ ॥ प्रान्तोऽयमावश्यकानुयोगः, तत्र च सामायिकाध्ययनमनुवर्तते, तस्य च चत्वार्यनुयोगद्वाराणि भवन्ति महापुरस्येव तद्यथा — उपक्रमः निक्षेपः अनुगमः नय इति एतेषां चाध्ययनादौ उपन्यासे इत्थं च क्रमोपन्यासे प्रयोजनमभिहितम्, तत्रोपक्रम निक्षेपावुक्तौ, अधुनाऽनुगमावसरः, स च द्विधा - निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र निर्युत्यनुगमस्त्रेधा-निक्षेपोपोद्घातसूत्रस्पर्शनिर्युक्त्यनुगमभेदात्, तंत्र निक्षेपनिर्युक्त्यनुगमोऽनुगतो वक्ष्यमाणश्च, उपोद्घातनिर्यु
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy