________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१४४॥
दत्त्वा तत्र पात्रके सरजस्त्राणं पात्राबन्धं पुनश्चाबन्धगं कुज्जेति-तत्र ग्रन्थिं न ददाति, किमर्थम् ?, अत आह–साणा- लेपपिण्डे दिरक्खणट्ठा' श्वानादिरक्षणार्थ ग्रन्थिं न ददाति, इदमुक्तं भवति-ग्रन्थिना दत्तेन सता कर्पटैकदेशे गृहीतः सन् शुना पात्रलेपना. माजारेण वा नीयते, पुनश्च तत्पात्रकं प्रमृज्य भुवं छायात उष्णे सङ्क्रामयति, एतदुक्तं भवति-अपराह्नच्छायाक्रान्तं सन् नि. ३९५
या ३९८ | पुनरुष्णे स्थापयति ।
भा. २१०तद्दिवसं पडिलेहा कुंभमुहाईण होइ कायवा । छन्ने य निसंकुज्जा कयकजाणं विउस्सग्गो ॥२११॥(भा०)
२११ । यस्मिन् दिवसे पात्रकं लेपयति तस्मिन् दिवसे 'कुम्भमुखादीनां' घटग्रीवादीनां प्रत्युपेक्षणं कृत्वा ततश्च गृह्णाति, येन है लिप्त पात्रक बहिस्तस्यां ग्रीवायां तस्मिन् दिवसे क्रियते, निशायां तु छन्ने तत्पात्रकं कुर्याद्, आत्मसमीपे, कृते च कार्ये
व्युत्सर्गः कर्त्तव्यस्तेषां घटग्रीवादीनां तस्मिन्नेव दिवसे येन परिग्रहकृतो दोषो न भवेत् , अन्यस्मिन् दिवसेऽन्यानि भविप्यन्ति । अथ लेपशेषः कश्चिदास्ते ततस्तस्य को विधिरित्यत आह__ अट्ठगहेड लेवाहियं तु सेसं सरूवगं पीसे । अहवावि नत्थि कजं सरूवमुझे तओ विहिणा ॥ ३९७ ॥
कदाचित्तत्रान्यत्र वा पात्रकेऽष्टको दातव्यो भवति, ततस्तदर्थ-अष्टकनिमित्तं करेण तं लेपाधिकं शेष सरूतं पेष्यते, अथ तेन लेपशेषेण न किञ्चित्कार्यमस्ति ततः सरूतमेव विधिना परित्यजेत् छारेण गुण्डयित्वेत्यर्थः । इदानीं तत्पात्रक कस्यां पौरुष्यां बाह्यतः स्थापनीयं ? कस्यां चाभ्यन्तरे प्रवेशयितव्यमित्येतत्प्रदर्शयन्नाह
॥१४॥ पढमचरिमा सिसिरे गिम्हे अद्धं तु तासि वजेज्जा । पायं ठवे सिणेहातिरक्खणट्ठा पवेसो वा ॥ ३९८॥