________________
RANASANA
दिसिपवणगामसूरियछायाएँ पमजिऊण तिक्खुत्तो। जस्सोग्गहोत्ति काऊण वोसिरे आयमेजा वा ॥१६॥
तत्र तेन साधुना सज्ञाव्युत्सृजता 'दिसत्ति उत्तरायां दिशि पूर्वायां च न पृष्ठं दातव्यं, लोकविरोधात्, तथा पवनग्रामसूर्याणां च पृष्ठं दत्त्वा न व्युत्सृजनीय, लोकविरोधादेव, तथा छायायां प्रमार्जयित्वा 'तिक्खुत्तो'त्ति तिस्रो वाराः प्रमार्जयित्वा तत्र व्युत्सृजनीयं, जस्सोग्गहो'त्ति यस्यायमवग्रहस्तेनानुज्ञातव्य इत्येवं कृत्वा व्युत्सृजनीयं 'आयमेज्जा वा' निर्लेपनं चापाने एवमेव कुर्यात् , यदुत स्थण्डिलेऽनुज्ञापयित्वा चेति। इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाहउत्तरपुवा पुज्जा जम्माएँ निसियरा अहिवडंति। घाणारिसा य पवणे सूरियगामे अवण्णो उ ॥१८४॥ (भा०) . उत्तरा दिक् पूर्वा च किल लोके द्वे अपि पूज्ये, ततश्च तयोः पृष्ठं न दातव्यं, 'जम्माए निसियरा अभिवडंति' याम्या-दक्षिणा दिक् तस्यां च रात्री पृष्ठं न दातव्यं, किमित्येतदेवम् ?, उच्यते, रात्रौ निशाचराः-पिशाचादयः 'अभिपतंति'त्ति अभिमुखा आगच्छन्ति, एतदुक्तं भवति-रात्रौ दक्षिणाया दिश उत्तरायां दिशि देवाः प्रयान्ति (इति) लोके श्रुतिः, ततश्च तत्र पृष्ठं न दातव्यं, प्रयच्छतो लोकविरोधो भवति, घाणारिसा य पवणे'त्ति पवनस्य च पृष्ठं यदि दीयते ततो घाणार्मासि भवन्ति, सूर्यग्रामयोश्च पृष्ठप्रदाने अवर्णः-अयशो भवति, । इदानीं 'छायाएं'त्ति व्याख्यानयन्नाहसंसत्तग्गहणी पुण छायाए निग्गयाण वोसिरइ। छायासइ उहंमिवि वोसिरिअ मुहत्तयं चिट्टे॥१८५॥ (भा०) | 'संसक्तग्रहणिः' कृमिसंसक्तोदर इत्यर्थः यद्यसौ साधुर्भवेत् ततो वृक्षच्छायायां निर्गतायां व्युत्सृजति, अथ छाया है न भवति ततश्च व्युत्सृज्य मुहूर्त्तमात्रं तिष्ठेद् येन ते कृमयः स्वयमेव परिणमन्ति । किं चासौ करोतीत्यत आह