SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः चरणानुयो गमहत्ता भा.५-१० वृत्तिः SSANAMROSAROKAR धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनद्रव्यानुयोगो भिन्नया विभक्त्येति, तथाऽनुयोगशब्दश्चैक एवोपन्यसनीयः, किमर्थ द्रव्यानुयोग इति भेदेनोपन्यस्त इति ?, अत्रोच्यते, यत्तावदुक्तं-चतुर्ग्रहणं न कर्तव्यं, विशिष्टपदोपन्यासात्, तदसत्, यतो न विशिष्टसङ्ख्यावगमो भवति विशिष्टपदोपन्यासेऽपि, कुतः१, चरणधर्मगणितद्रव्यपदानि सन्ति, अन्यान्यपि सन्तीति संशयो मा भूत्कस्यचिदित्यतश्चतुर्ग्रहणं क्रियत इति, तथा यच्चोक्तं-भिन्नया विभक्त्या चरणपदं केन कारणेनोपन्यस्तम् ?, तत्रैतत्प्रयोजनं, चरणकरणानुयोग एवात्राधिकृतः, प्राधान्यख्यापनार्थ भिन्नया विभक्त्या उपन्यास इति, तथा धर्मगणितानुयोगौ एकविभक्त्योपन्यस्तौ, अत्र तु क्रमेऽप्रधानावेताविति, तथा द्रव्यानुयोगे भिन्नविभक्त्युपन्यासे प्रयोजनं, अयं हि एकैकानुयोगे मीलनीयः, न पुनलौकिकशास्त्रवधुक्तिभिर्न विचारणीय इति, तथाऽनुयोगशब्दद्वयोपन्यासे प्रयोजनमुच्यते-यत्त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्तं तदपृथक्त्वानुयोगप्रतिपादनार्थ, यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगप्रतिपादनार्थमिति । एवं व्याख्याते सत्याह परः-इह गाथासूत्रपर्यन्त इदमुक्तं-'यथाक्रमं ते महर्द्धिका इति, एवं बर्हि चरणकरणानुयोगस्य लघुत्वं, तत्किमर्थं तस्य नियुक्तिः क्रियते ?, अपि तु द्रव्यानुयोगस्य युज्यते कर्तुं, सर्वेषामेव प्रधानत्वात् , एवं चोदकेनाक्षेपे कृते सत्युच्यतेसविसयबलवत्तं पुण जुज्जइ तहविअमहि दिअंचरणं।चारित्तरक्खणट्ठा जेणिअरे तिनि अणुओगा॥६॥(भा०)। ___ स्वश्चासौ विषयश्च स्वविषयस्तस्मिन् स्वविषये बलवत्त्वं पुनयुज्यते-घटते, एतदुक्तं भवति-आत्मीयात्मीयविषये सर्व एव | |बलवन्तो वर्तन्त इति, एवं व्याख्याते सत्यपरस्त्वाह-यद्येवं सर्वेषामेव नियुक्तिकरणं प्राप्तं, आत्मीयात्मीयविषये सर्वेषामेव |
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy