SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः संघमविराधना अग्नेश्च सेवने संयमविराधनेति । द्वारम् । एवं तावद्बाह्यतो भुञ्जानानामन्यग्रामे च गच्छतां दोषा व्या-तिभाशा ख्याताः, इदानीं तु यदुक्तमासीच्चोदकेन यदुत विकाले प्रवेष्टुं युज्यते तन्निरस्यन्नाह-'वियालगम(ह) णे इमे दोसा' विका- * नि. १८९लगमने वसतौ 'एते वक्ष्यमाणलक्षणा दोषा भवन्ति, ते चामी| पविसणमग्गणठाणे वेसित्थिदुगुछिए य बोद्धव्वे । सज्झाए संथारे उच्चारे चेव पासवणे ॥ १९२॥ हा 'पविसण'त्ति तत्र ग्राम विकाले प्रविशतां ये दोषास्तान वक्ष्यामः, 'मग्गणत्ति वसतिमार्गणा, अन्वेषणे च विकालवे लायां ये दोषास्तान वक्ष्यामः । 'ठाणे वेसिथिदुगुंछिए अ' इत्येतद्वक्ष्यतीति विकालवेलायां 'बोद्धव्यं' ज्ञेयम् । 'सज्झाए'त्ति स्वाध्यायं अप्रत्युपेक्षितायां वसतौ अगृहीते काले कुर्वतो दोषः, अथ न करोति तथाऽपि दोषः-हानिलक्षणः । 'संथारे'त्ति अप्रत्युपेक्षितायां वसतौ संस्तारकभुवं गृहतः संयमात्मविराधना दोषः। 'उच्चारे'त्ति अप्रत्युपेक्षितायां वसती स्थण्डिलेष्वनिरूपितेषु व्युत्सृजतां दोषो, धरणेऽपि दोषः, 'पासवणे'त्ति अप्रत्युपेक्षितेषु स्थण्डिलेषु व्युत्सृजतो दोषः धारयतोऽपि दोष एव । इयं द्वारगाथा इदानीं प्रतिपदं व्याख्यायतेसावयतेणा दुविहा विराहणा जा य उवहिणा उविणा। गुम्मिअगहणाऽऽहणणा गोणाईचमढणा चेव ॥१९॥ विकाले प्रविशतां ग्रामे श्वापदभयं भवति । स्तेना द्विप्रकाराः-शरीरस्तेना उपधिस्तेनाश्च, तद्भयं भवति विकाले प्रविशताम् , विराधना या च उपधिना विना भवति-अग्नितॄणयोग्रहणसेवनादिका, सा प विकाले प्रवेशे दोषः । 'गुम्मिय'त्ति
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy