SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ARCANAGAR ___ यदि शुद्धाः-संवासशुद्धाः, के अभिधीयन्ते ?, प्रशस्तश्रुतगुणास्तथा प्रशस्ताज्ञातगुणाश्च, तेष्वेवं विधेषु संवासं-संवसनं करोति । 'होइ असुद्धाण दुविह पडिलेहा भवत्यशुद्धानां द्विविधा प्रत्युपेक्षणा, तत्राशुद्धा अप्रशस्तश्रुतगुणास्तथाऽप्रशस्तज्ञातगुणा अशुद्धा अभिधीयन्ते, तद्विषयं द्विविधं प्रत्युपेक्षणं भवति, कथम् ?-'अभितरबाहिरिआ एका अभ्यन्तरप्रत्युपेक्षणाऽभ्यन्तरेत्यर्थः, अपरा बाह्यप्रत्युपेक्षणा, 'दुविहा दबे य भावे य' एकैका च प्रत्युपेक्षणा द्विविधा, 'दवे यभावे य' याऽसौ अभ्यन्तरा प्रत्युपेक्षणा सा द्रव्यतो भावतश्च भवति, याऽपि बाह्या प्रत्युपेक्षणा साऽपि द्रव्यतो भावतश्चेति द्विविधैव । इदानीं बाह्यां प्रत्युपेक्षणां द्रव्यतः प्रतिपादयन्नाह घट्ठाइतलिअदंडग पाउय संलग्गिरी अणुवओगो। दिसि पवणगामसूरिअ वितहं उच्छोलणा दवे ॥ ९८॥ __ 'घटादि'त्ति घृष्टा जवासु दत्तफेनका, आदिशब्दात्तु मट्ठा तुप्पोहादयो गृह्यन्ते, 'तलिग'त्ति सोपानत्काः-उपानद्रूढपादाः | 'दंडग'त्ति चित्रलतादण्डकैदृहीतैः 'पाउयमिति प्रावृतं यथा संयत्यः प्रावृण्वन्ति कल्पं तथा तैः प्रावृतं 'संलग्गिरित्ति परस्परं हस्तावलगिकया व्रजन्ति, अथवा संलग्गिरीति युगलिता व्रजन्ति, 'अणुवओगोत्ति अनुपयुक्ता ब्रजन्ति, ईर्यायाहै मनुपयुक्ताः, एवं बहिर्भुवं गच्छन्तः प्रत्युपेक्षिताः, इदानीं सज्ञाभूमीप्राप्तान संयतान् प्रत्युपेक्षते-दिसित्ति आगमोक्त दिग्विपर्यासेनोपविशन्ति, 'पवण'त्ति पवनस्य प्रतिकूलमुपवेष्टव्यं ते तु आनुकूल्येन पवनस्योपविशन्ति, 'गामत्ति ग्रामस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठं दत्त्वोपविशन्ति, 'सूरियत्ति सूर्यस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठं दत्त्वोपविशन्ति । एवमुक्तेन प्रकारेण वितथं कुर्वन्ति, 'उच्छोलणत्ति पुरीषमुत्सृज्य प्रभूतेन पयसा क्षालनं कुर्वन्ति, 'दबे'त्ति द्वारपरामर्शः, इयं
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy