SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तया हि परिशाव्या निपतन्त्या पृथिवीकायादि विध्वस्यते इति । 'पंचेव'त्ति तत्र चीरोपरि अस्थण्डिलस्थः कियद्भक्षयति ?, ग्रीन पञ्च वा कवलान् । 'सेसं जा थंडिलं' शेष-अपरं भक्तं तावन्नयति यावत्स्थण्डिलं प्राप्तम् । 'असईएत्ति अपान्तराले स्थण्डिलस्यासति 'अण्णगामंमित्ति अन्यदामं प्रयाति, तत्र च स्थण्डिले भुत इति । इदानीं यदुक्तं 'कालदुवेत्ति नियुक्तिकृता तद्भाष्यकृद् व्याख्यानयन्नाह अपहुप्पंते काले तं चेव दुगाउयं नइक्कामे । गोमुत्तिअदड्डाइसु मुंजइ अहवा पएसेसुं॥ ६४॥ (भा०) | 5 अथ तस्य भिक्षोर्गच्छतो योऽसावभिप्रेतो ग्रामः स क्रोशत्रये संजातः, तत्र च यदि कालः पर्याप्यते ततस्तद्भक्तं पूर्वगृ-|| हीतं परित्यज्यान्यद्गृह्णाति, अथास्तमयकाल आसन्नस्ततः 'तं चेवत्ति तदेव पूर्वगृहीतं भक्तं क्षेत्रातिक्रान्तमपि भुते, 'दुगा-1 उअं नइक्कामे'त्ति यदा तु कालः पर्याप्यते तदा तत्पूर्वगृहीतं भक्तं द्विगव्यूतात्परतो नातिकामयति-न नयति, गव्यूतद्वय एव तत्परित्यज्य याति, तत्र च गतः काले पर्याप्यमाणेऽन्यद् ग्रहीष्यतीति, यदा पुनस्तस्य साधोजतः क्रोशद्वयव्यवमें स्थितग्रामस्यारत आदित्योऽस्तमुपयाति न चान्तराले स्थण्डिलमस्ति तदा 'गोमुत्तिगदड्वादिसु भुजे' गोमूत्रदग्धेषु देशेषु है भुञ्जीत, आदिशब्दात्सूकरोत्कीर्णभूप्रदेशादौ भुङ्ग इति, 'अहवा पएसेसुत्ति यदि गोमूत्रदग्धादिस्थानं न भवति ततो| धर्माधर्माकाशास्तिकायकल्पनां तस्मिन् स्थाने कृत्वा भुते, एतदुक्तं भवति-धर्माधर्माकाशास्तिकायैस्तिरोहितायां भुवि ऊर्ध्व-टू व्यवस्थितः, ततश्चानया यतनया सशूकता दर्शिता भवति । उक्तं सज्ञिद्वारम् , इदानीं साधर्मिकद्वारप्रतिपादनायाहदिट्ठमदिहा दुविहा नायगुणा चेव हुंति अन्नाया। अद्दिहावि अदुविहा सुअमसुअ पसत्थमपसत्था ॥ ९५॥ ASSASSOU
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy