________________
GSSESENA
षतो विभाव्यते-अवधिज्ञानावरणवर्जानां चतुर्णा ज्ञानावरणानां चक्षुरचक्षुःकेवलदर्शनावरणानां क्षीणकषायस्य श्रुतकेवलिन इतरस्य वा | गुणितकांशस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । अवधिज्ञानावरणावधिदर्शनावरणयोः पुनरवधिलब्धिरहितस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा। निद्रामचलयोरुपशान्तकषायस्य, प्रमत्तसंयतेऽप्रमत्तभावाभिमुखे स्त्यानदित्रिकस्य, मिथ्यात्वानन्तानुबन्धिकपायाणामनन्तरसमये सम्यक्त्वं संयमसहितं प्रतिपत्तुकामस्य मिथ्यादृष्टेश्वरमसमये, सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रतिपच्युपान्त्यसमये, अप्रत्याख्यानावरणकषायाणामविरतसम्यग्दृष्टेरनन्तरसम ये देशविरति प्रतिपत्तुकामस्य, प्रत्याख्यानावरणकषायाणां देशविरतस्यानन्तरसमये संयमं प्रतिपत्तुकामस्य, संज्वलनक्रोधमानमायानां तत्तद्वेदकस्य स्वस्वोदयपर्यव
साने, वेदत्रयसंज्वलनलोभानां तत्तद्वेदकस्य समयाधिकावलिकाचरमसमये, क्षपकस्य हास्यादिषट्कस्यापूर्वकरणगुणस्थानकचरमसमये, 7|सर्वत्र गुणितकाशस्योत्कृष्टा प्रदेशोदीरणा वेदितव्या ॥८२।। ___ (उ०)–कृता साद्यादिप्ररूपणा, अथ स्वामित्वमभिधेयम् । तच्चोत्कृष्टप्रदेशोदीरणास्वामित्वं, जघन्यप्रदेशोदीरणास्वामित्वं चेति द्विवि- |
धम् । तत्राद्यं तावदाह-घातिकर्मणां सर्वेषामप्यनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी प्रागुक्तः स स एवोत्कृष्टप्रदेशो १६) दीरणास्वामी गुणितकाशो ज्ञातव्यः, नवरमन्यतर इति श्रुतकेवलीतरो वा,अवधिज्ञानावधिदर्शनावरणयोरवधिलब्धिहीन उत्कृष्टप्रदेशो. है दीरको भाव्यः । इदमतीव संक्षिप्तमिति वितत्य व्याख्यायते-अवधिज्ञानदर्शनावरणवज्ञानावरणपञ्चकदर्शनावरण चतुष्टयानां क्षीण
कषायस्य श्रुतकेवलिन इतरस्य वा गुणितकाशस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । अवधिज्ञानदर्शनावरणयोः पुनरवधिलब्धिरहितस्य तस्यैव तदा सा । निद्रापचलयोरुपशान्तकषायस्य, स्त्यानद्धित्रिकस्य प्रमत्तसंयतेऽप्रमत्तभावाभिमुखे, मिथ्या.