SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तियाणं जीवपदेसाणं ममुदापणं पढमा पसा वग्गणा भवति, ते पतरा लोगस्म असंग्वेजतिभागो। 'अविभाIS गहिया परंपरओ' त्ति-पढमवग्गणाजीवप्पदेसेहितोजे एगेण वीरीयअविभागपलिच्छेदेण अहिगा जीवप्पदेसा तेसिं समुदाएण बितिया वग्गणा भवति, ते वि जीवप्पदेसा असंखिजपतरमेत्ता चेव, बीयवग्गणाजीवप्पदेसेहिंतो जे एगेण बीरियअविभागपलिच्छेदेण अहिगा जीवप्पदेसा तेसिं समुदाएण ततिया वग्गणा, एवं एएण | कमेणं पगुत्तरवढियाओ वग्गणाओ णेयव्वातो ॥७॥ __ (म०)-उक्ताऽविभागप्ररूपणा, सम्प्रति वर्गणाप्ररूपणामाह- 'जेसिमिति' । येषां जीवप्रदेशानां 'समाः'-तुल्यसंख्या वीर्याविभागा भवन्ति सर्वतश्च-सर्वेभ्योऽपि चान्येभ्योऽपि जीवपदेशगतवीर्याविभागेभ्यः स्तोकतमाः ते जीवप्रदेशा घनीकृतलोकासंख्येयभागवर्त्य संख्येयप्रतरगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा, सा च जघन्या, स्तोकाविभागयुक्तत्वात् । 'अविभागाधिका परंपरत' इतिततः परा वर्गणा एकैकेनाविभागेनाधिका वक्तव्या । तद्यथा-जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका धनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरगतप्रदेशराशिप्रमाणा वर्तन्ते तेषां समुदायो द्वितीया वर्गणा । ततः परं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसंख्याकानामेव जीवप्रदेशानां समुदायस्तृतीया वर्गणा । ततोऽपि त्रिभिर्याविभागैरधिकानां तावत्संख्याकानामेव जीवप्रदेशानां समुदायश्चतुर्थी वर्गणा । एवमेकैकवीर्याविभागवृद्धया वर्धमानानां तावतां तावतां जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्या इति ॥७॥ (उ०)-उक्ता अविभागप्ररूपणा, अथ वर्गणाप्ररूपणामाह-पेषां जीवप्रदेशानां समाः-तुल्यसङ्ख्या वीर्याविभागाः सर्वतः सर्वेभ्य दादक
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy