________________
शुभत्वमशुभत्वं च, विपाकश्चतुर्विधः-पुद्गलविपाकादिः, एतान् सम्यक् चिन्तयित्वा परिभाव्य जघन्योत्कृष्टानुभागोदीरणास्वामी यथा-13 वज्ज्ञेयोऽवगन्तव्यः । तथाहि-परिणामप्रत्ययानुभागोदीरणा प्राय उत्कृष्टा भवति, भवप्रत्यया तु जघन्या । शुभानां च संक्लेशे प्रायो जघन्यानुभागोदीरणा, अशुभानां च विशुद्धौ, विपर्यासे तूत्कृष्टा इत्यादि प िभाव्य तत्तत्प्रकृत्युदयवतां जघन्योत्कृष्टानुभागोदीरणास्वामित्वमवगन्तव्यमिति ॥७९॥
(उ०)-शेषाणां सातासातवेदनीयगतिचतुष्कजातिपश्चकानुपूर्वीचतुष्कोच्छ्वासखगतिद्विकासस्थावरबादरमूक्ष्मपर्याप्तापर्याप्तसुभगदु. भगसुस्वरदुःस्वरादेयानादेययश-कीर्त्ययशःकीत्युचेर्गोत्रनीचैर्गोत्रलक्षणानां चतुस्त्रिंशत्प्रकृतीनां तत्तत्प्रकृत्युदये वर्तमानाः सर्वेऽपि जीवा | मध्यमपरिणामपरिणता जघन्यानुभागोदीरणास्वामिनो भवन्ति । अथ सर्वत्र सामान्येन जघन्योत्कृष्टानुभागोदीरणास्वामित्वपरिज्ञानो| पायमुपदिशति-'पच्चय' ति । प्रत्ययं परिणामप्रत्ययभवप्रत्ययलक्षणं तथा प्रकृतीनां शुभत्वमशुभत्वं च विपाकांश्च पुद्गल विपाकादीन् चिन्तयित्वा सम्यक् परिभाव्य जघन्योत्कृष्टानुभागोदीरणास्वामी यथावज्झेयः । तथाहि-परिगामप्रत्ययानुभागोदीरणा प्राय उत्कृष्टा, भवप्रत्यया तु जघन्या, शुभानां च संक्लेरो जघन्यानुभागोदीरगाऽशुभानां च विशुद्रौ, विपर्यासे तू-कृष्टा, पुद्गलादिविपाकानां पुद्गलादिप्रत्ययोत्कर्षे उत्कृष्टाऽऽद्यसमपे तु जघन्येत्यादि परिभाव्य तत्तत्प्रकृत्युदयवति जघन्योत्कृष्टानुभागोदीरणास्वामित्वं निर्धारणीयमिति ॥७९॥
भणिया अणुभागुदीरणा । इयाणिं पएसुदीरणा भण्णइ । तीसे इमे अत्याहिगारा । तं जहा-सादियअणादिपरूवणा, साभित्तभिति। तत्थ सादि य अणादि परूवणा दुविहा-मूलपगतिसादियअणादिपरूवणा य, उत्तर