SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥९२॥ | ज्ञातव्य इत्यर्थः । तथेतरत्साधारणनाम हुण्डेन समं वक्तव्यं, यथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नों जघन्यानुभागोदीरणा प्रागुक्ता तथा साधारणनाम्नोऽपि वाच्येत्यर्थः । तथा तस्य सूक्ष्मकेन्द्रियस्य शीघ्रपर्याप्तस्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तिचरम| समये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा । तथाऽऽतपोद्योतनाम्नोस्तद्योग्यः पृथिवी कायिकः शरीरपर्यात्या पर्याप्तः प्रथमे समये वर्तमानः संक्लिष्टो जघन्यानुभागोदीरकः ॥७७॥ जा नाउज्जियकरणं तित्थगरस्स नवगस्स जोगंते । कक्खडगुरूणमंते नियत्तमाणस्स केवलिणो ॥ ७८ ॥ (चू० ) - ' जा णाउज्जियकरणं तित्थकरस्स'त्ति-जाव आउज्जीकरणं ण आढवेति ताव तित्थकरणामाए जहणाणुभागुदीरणा, सत्र्वकालं आउज्जीकरणे बहुगं अणुभागं उदीरेति । 'णवगस्स जोगंते' त्ति-कक्खडगुरुग हीणं कुवण्णणवगं अभिरं असुभं एतेसिं णवण्डं कम्माणं सजोगि केवलिचरिमसमए जहण्णाणुभागुदीरणा । 'कक्खडगुरुण मंथे णियत्तमाणस्स केवलिणो त्ति - कक्खडगुरुगाणं केवलिसमुग्धायाओ णियत्तमाणस्स मंथे वट्टमाणस समुग्धारण खविए जहणियाणुभागउदीरणा ||१८|| (मलय ० ) – 'ज' ति । आयोजिकाकरणं नाम केवलिसमुद्घातादवग् भवति । तत्राङ् मर्यादायाम् आ मर्यादया केवलिदृष्टया योजनं व्यापारणं आयोजनम् । तच्चातिशुभयोगानामवसेयम् । आयोजनमायोजिका तस्याः करणं आयोजिकाकरणम् । केचिदावर्जितकरणमाहुः, तत्रायं शब्दार्थः- आवर्जितो नाम अभिमुखीकृतः । तथा च लोके वक्तारः - आवर्जितोऽयं मया, संमुखीकृत इत्यर्थः । | ततश्च तथा भव्यत्वेनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं शुभयोगव्यापारणं आवर्जितकरणम् । अपरे 'जा नाउस्सय करणं' अनुभागो दीरणा ॥९२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy