SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ रणुयतिरियाणमेया एगंतजोग्गाला तास पगतीता-मणुयाउगतिरियाउगमणुधगात तिचा ३२ जाता। उरालियसत्तगं मज्झिल्ला चत्तारि मठाणा छ संघयणा आता थावरं महम अपजतग माहारणमिति तास सव्वासि बन्धे तिषिण ठाणा ४-३-२, उदीरणाए उक्कोसो वा अणुभागो दुठाणितो ॥४५॥ (मलय०)-'टाणेसु' ति-नपुंसकवेदो बन्धं प्रतीत्य त्रिप्रकारे रसे । तद्यथा-चतुःस्थानके, त्रिस्थानके, द्विस्थानके, च । अत्र । तूत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानके, अनुत्कृष्टां त्वधिकृत्य चतु:स्थानके त्रिस्थान के द्विस्थानक एकस्थानके च । ननु बन्धाभावे कथमुदीरणायामकस्थानको रसो नपुंसकवेदस्य प्राप्यते ? उच्यते-क्षपणकाले रसघातं कुर्वतस्तस्यैकस्थानकस्यापि रससंभवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च । इह त्वनुभागोदीरणामधिकृत्य द्विस्थानके।। तथा चतस्र आनुपूर्यो याश्च नरतिरश्चामुदयं प्रत्येकान्तयोग्यात्रिंशत्प्रकृतयः, तद्यथा-मनुष्यायुस्तिर्यगायुस्तिर्यग्गतिर्मनुष्यगतिरेकेन्द्रियजातिीन्द्रियजातिस्त्रीन्द्रियजातिश्चतुरिन्द्रियजातिश्चौदारिकसप्तकमाद्यन्तवर्जसंस्थानचतुष्टयं संहननपटकमातपं स्थावरं सूक्ष्ममपयाप्तं साधारणं चेति ता अपि बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च । इह त्वनुभागोदीरणामुत्कृष्टामनुत्कृष्टां वाधिकृत्य द्विस्थानके रसे वेदितव्याः॥४५॥ (उ०)-अपुमान्-नपुंसकवेदोऽनुभागोदीरणायामेकद्वित्रिचतुःस्थानकरूपेषु चतुर्वपि स्थानेषु ज्ञेयः। तत्रोत्कृष्टामनुभागोदीरणामधिकृत्य चतु:स्थानके, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च ज्ञेयः। बन्धं प्रतीत्य पुनरयमेकस्थानकवर्जे | त्रिप्रकारे रसे प्रोक्तः । अथ बन्धाभावे नपुंसकवेदस्यैकस्थानको रसः कथमुदीरणायां प्राप्यते ? उच्यते-क्षपणकाले रसघातं कुर्वतस्तस्यै
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy