SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥६॥ | अनुभागोदीरणा acabaran20HCASE | इयाणं पि" ॥ अस्याश्चाक्षरगमनिका-अरतिरत्योरुदयो विपाकोदयः पुद्गलान प्राप्य किं न भवति ? भवत्येवेति भावः, ततः कथं तयो रसः पुद्गलविपाको नोच्यते ? अत्राचार्यः काक्वा प्रत्युत्तरमाह-'अप्पुढेहि वि किन्नो' ? अत्र सप्तम्यर्थे तृतीया, ततोऽयमर्थ:| अस्पृष्टेष्वपि पुद्गलेषु किं तयो रत्यरत्योर्विपाकोदयो न भवति ? भवत्येवेति भावः । ततः पुद्गलव्यभिचारान्न तयो रसः पुद्गलविपाको भवति, किं तु जीवविपाक एव । एवं क्रोधादीनामपि वाच्यम् । तथा क्षेत्रमधिकृत्य यस्य रसस्य विपाकोदयः स रसः क्षेत्रविपाकः, स च चतसृणामानुपूर्वीणामवगन्तव्यः । तथा भवमधिकृत्य यस्य रसस्य विपाकोदयः स रसो भवविपाकः। स च चतुर्णामायुगामवसेयः। अथोच्येत गतीनामपि भवमधिकृत्य विपाकोदयो वर्तते, ततः कथं तासां रसो भवविपाको नाभिधीयते ? तदयुक्त, व्यभिचारात् । तथाहि-आयुषां स्वभवमन्तरेण परभवे संक्रमेणाप्युदयो न भवति, ततः सर्वथा स्वभवाव्यभिचारात्तानि भवविपाकान्युच्यन्ते । गतीनां | पुनः परभवेऽपि संक्रमेणोदयो भवति, ततः स्वभवव्यभिचारान्न ता भवविपाकिन्यः । उक्तं च-"आउच्च भवधिगगा गई न आउस्स परभवे जम्हा । नो सञ्चहा वि उदो गईण पुण संकमणत्थि" ॥ सुगमा । शेषाणां त्वष्टसप्ततिसंख्यानां प्रकृतीनां जीवविपाको रसः, जीवमेवाधिकृत्य विपाको यस्यासौ जीवविपाकः। 'नागत्तं इत्यादि-नानात्वं विशेषः, यत्तत्र शतकाख्ये ग्रन्थेऽनुभागबन्धे नोक्तं | तदिह वक्ष्ये, उक्तस्य च विशेषमित्यर्थः । तथा तत्र बन्धमाश्रित्यान्ये एव मिथ्यात्वादयः प्रत्यया उक्ताः, इह तूहीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः॥४३॥ __ (उ०)-तदेवमुक्ता स्थित्युदीरणा, सम्प्रत्यनुभागोदीरणावसः। तत्र चेमेऽर्थाधिकाराः-संज्ञाप्ररूपणा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, प्रत्ययप्ररूपणा, साधनादिप्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र संज्ञाशुभाशुभविपाकप्ररूपणां ग्रन्थान्तरोक्त्याऽतिदिशन्नाह CACKAGEDKARED ॥६४||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy