SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ | स्यैव सम्भवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ स्थितिरूपौ यस्य वैक्रियस्य-वैक्रियशरीरक्रियसंघातवैक्रिय बन्धनचतुष्टयरूपस्य वैक्रियषट्कस्य तद्विसप्तभागबैंक्रिय, तदपि प्राक्तनानुवृच्या पल्योपमासंख्येयभागोनं गृह्यते, तस्य स्त्रीत्वनिर्देशः४ | प्राकृतत्वात , पवनस्य-बादरवायुकायिकस्य वैक्रियस्यान्ते-पर्यन्तसमये जघन्या स्थित्युदीरणा । इयमत्र भावना-बादरवायुकायिकः पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तभागप्रमाणवैक्रियषट्कजघन्यस्थितिसत्कर्मा बहुशो वैक्रियं निर्माय चरमे वैक्रियारम्भे चरमसमये वर्तमानो जघन्यस्थित्युदीरणां करोति । तदनन्तरसमये च वैक्रियषद्कमेकेन्द्रियसम्बन्धिजघन्यसत्कर्मापेक्षया स्तोकतरमिति कृत्वोदीरणायोग्यं न भवति, किं तूद्वलनायोग्यम् ॥४०॥ चउरुवसमेत्तु पेजं पच्छा मिच्छं खवेत्तु तेत्तीसा । उक्कोससंजमद्धा अंते सुतणूउवंगाणं ॥४१॥ (चू०)-'पेज'-मोहं; तं चत्तारि वारे उवसामइनु 'पच्छानिच्छत्तं खवेत्तु'त्ति-चत्तारि वारे उवसामित्तु पच्छा | | मिच्छत्तादिदंसणमोहं स्ववेत्तु तेत्तीसा' इति-ततो उक्कोसठितिगेसु देवेसु तेतीसं सागरोवमादी जीविय ततो चुतो मणूसो जातो अठवासितोसंजमं पडिवण्णो 'उक्कोससंजमद्धा अंतेत्ति-पुवकोडिं देसणं संजमं अणुपालेत तस्स अंते आहारगसरीरी जातो तस्स अंते 'सुतणूउवंगाणं'ति-सुतणुत्ति आहारसरीरं, ताए चेव अंगोवंग, एएसिं सपरिवाराणं जहणिया ठितिउदीरणा। किं कारणं? संतकम्मं पत्तियं कालं हेहातो खयं जातित्ति किच्चा ॥४१॥ (मलय०)-'चउत्ति।संसारपरिभ्रमणेन चतुरोबारान् प्रेम-मोहनीयमुपशमय्य ततो मिथ्यात्वं, उपलक्षणमेतत् , सम्यक्त्वं सम्यग्मिध्यात्वं च क्षपितं, क्षपयित्वा च त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः । ततो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः। ततो SHORNSSOSORNER
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy