________________
लिकात्रिकहीना सर्वा स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । अत्र बन्धावलिकासंक्रमावलिकारहिता सर्वा स्थितिर्यत्स्थितिः, इहावलिका त्रिकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । एवमग्रेऽपि यावान् यावानुदीरणानर्हः कालस्तावाँस्तावानद्धाच्छेदस्तदुदयवन्तचोदीरणास्वामिनोऽवसेयाः । तथा सप्ततिसागरोपमकोटी कोटी प्रमाणां मिथ्यादृष्टिर्मिथ्यात्वस्थितिं बद्ध्वान्त| मुहूर्त्तं यावन्मिथ्यात्व एव स्थित्वा सम्यक्त्वं प्रतिपद्यते । ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चान्तर्मुहूर्तोनां मिथ्यात्वस्थितिं सकलामपि संक्रमयति, संक्रमावलिकायां चातीतायां तदुदीरणा प्रवर्त्तते, ततः संक्रमावलिकातिक्रमेऽपि सान्तर्मुहूतोंनैवेति सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तर्मुहूर्तोना सप्ततिसागरोपम कोटा कोटीप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । ततः कञ्चित्सम्यक्त्वेऽप्यन्तर्मुहूर्त्त स्थित्वा सम्यग्मिथ्यात्वं गच्छति । ततः सम्यग्मिथ्यात्वमनुभवतः सम्यग्मिथ्यात्वस्यान्तर्मुहूर्त्तद्विकोना सप्ततिसागरोपमकोटाकोटिप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । उक्तं च- " " अंतो मुहुत्त हीणा सम्मे मीसम्मि दोहिं मिच्छस्स” । मिथ्यात्वस्योत्कृष्ट स्थितिरन्तर्मुहूर्त्ताना सम्यक्त्वे, मिश्रे च द्वाभ्यामन्तर्मुहूर्त्ताभ्यामूनोदीरणायोग्येत्येतदक्षरार्थः । तथाऽऽहारक सप्तकं स्वयोग्योत्कृष्टसंक्लेशेनाप्रमत्तेन सतोत्कृष्टस्थितिकं बद्ध्वा तत्कालोत्कृष्टस्थितिकस्य मूलप्रकृत्यभिन्न प्रकृत्यन्तरदलिकं च तत्र संक्रमय्य सर्वोत्कृष्टान्तः सागरोपमकोटाकोटिस्थितिकं करोति । ततो बन्धानन्तरमन्तर्मुहूर्तमतिक्रम्याहार कशरीरं कर्तुमुद्यतते तच्च कुर्वन् लब्ध्युपजीवनौत्सुक्यभावेन प्रमादं भजते, ततस्तस्य प्रमत्तस्य सत आहारकशरीरं कुर्वत आहारकसप्तकस्यान्तर्मुहूर्त्तानोत्कृष्टा स्थितिरुदीरणायोग्या । अत्र प्रमत्तस्याहारकशरीरारम्भकत्वादुत्कृष्टस्थित्युदीरणास्वामी प्रमत्तसंयत एव द्रष्टव्यः । अवशिष्टप्रकृतीनां सूत्रदेव विशेषमाचष्टे - 'निरयगईइ वा वि १ पञ्चसंग्रह उदीरणाकरण गा० २९