SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥५०॥ REGDISCREESOREDIRECE एस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतिक्रान्ते सति तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां पृथिव्यां समुत्पन्नः, तस्य प्रथमसमये नरक-13 गतेरन्तर्मुहूर्तहीना सर्वाऽपि स्थितिविंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या भवति। नरकानुपूर्व्याश्चापान्तरालगतौ समय- स्थित्युदीत्रयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या । अधस्तनपृथिवीत्रयग्रहणे किं प्रयोजनमिति चेद्, उच्यते-इह नरकगत्यादीनामुत्कृष्टां स्थिति बनन्नवश्यं कृष्णलेश्यापरिणामोपेतो भवति । कृष्णलेश्यापरिणामोपेतश्च कालं कृत्वा नरकेषत्पद्यमानो जघन्यकृष्णलेश्यापरिणामः पञ्चमपृथिव्यामुत्पद्यते । मध्यमकृष्णलेश्यापरिणामः षष्ठपृथिव्यां । उत्कृष्टकृष्णलेश्यापरिणामः सप्तमपृथिव्यामित्यधस्तनपृथिवी-| त्रयग्रहणं ॥३२॥ ___ (उ०)-कृता साधनादिप्ररूपणा, अथाद्धाच्छेदं स्वामित्वं च प्रतिपादयन्नाह-अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमे प्रोक्तं तथैवात्राप्यवसेयम् । नवरमयं भेदः-संक्रमकरणे तदवेदिष्यपि स्थितिसंक्रम उक्तः, उदयाभावेऽपि संक्रमोपपत्तेः, उदीरणा त्वेषां तद्वेदिष्वेव द्रष्टव्या, उदयाभावे उदीरणाया अभावात् । इदमतिसंक्षिप्योक्तमिति किञ्चिद्वितत्योच्यते-तत्र स्वोदयबन्धोत्कृष्टानां ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयतैजससप्तकवर्णादिविंशतिनिर्माणास्थिराशुभागुरुलघुमिथ्यात्वकषायषोडशकत्रसचतुष्कदुर्भगचतुष्कवक्रि | यसप्तकपश्चेन्द्रियजातिहुण्डोपघातपराघातोच्छ्वासातपोद्योताशुभविहायोगतिनीचेगोत्ररूपाणां पडशीतिप्रकृतीनां बन्धावलिकायामतीतायामुदयावलिकात उपरितनी सर्वाऽपि स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । बन्धावलिकारहिता च सर्वा स्थितियस्थितिः । इहावलिकाद्विकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । उदये सति संक्रमोत्कृष्टस्थितिकानां तु मनुजगतिसात. ॥५०॥ | वेदनीयस्थिरादिषदकहास्यादिषद्कवेदत्रयशुभविहायोगतिपथमसंस्थानपश्चकप्रथमसंहननपञ्चकोचेगोत्ररूपाणामेकोनत्रिंशत्प्रकृतीनामाव
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy