SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ ( V कर्मप्रकृतिः IN ॥२८॥ | नामकर्मण उदीरणास्थानानि दश, तद्यथा-एकचत्वारिंशत् , द्विचत्वारिंशत् , पञ्चाशत् , एकपश्चाशत् , द्विपश्चाशत् , त्रिपञ्चाशत् , चतुःपञ्चाशत् , पञ्चपश्चाशत् , षट्पञ्चाशत् , सप्तपञ्चाशञ्चेति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु स्थिरास्थिरे शुभाशुभे निर्माणमित्येतासां || प्रकृत्युदीत्रयस्त्रिंशत्प्रकृतीनामुदीरणा ध्रुवा। तत्र मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तिरूपेऽष्टके प्रक्षिप्ते सति एकचत्वारिंशद्भवति । एतासां चैकचत्वारिंशत्प्रकृतीनां केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमानः केवली उदीरको भवति । एषैव चैकचत्वारिंशत्तीर्थकरनामसहिता द्विचत्वारिंशद्भवति । तस्याश्च तीर्थकरः केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमान उदीरकः । तस्यामेवैकचत्वारिंशति औदारिकसप्तकं पण्णां संस्थानानामेकतमत् संस्थानं वज्रर्षभनाराचसंहननमुपघातं प्रत्येकमित्येकादशके प्रक्षिप्ते सति द्विपचाशद्भवति । अत्र पद्भिः संस्थानः षड्भङ्गाः, ते च वक्ष्यमाणसामान्यमनुष्यभङ्गग्रहणेन गृहीता द्रष्टव्याः, एवमुत्तरत्रापि । एतस्याश्च द्विपञ्चाशतः सयोगिकेवली समुद्घातगत औदारिकमिश्रकाययोगे वर्तमान उदीरकः । एषैव च द्विपश्चाशत्तीर्थकरनामसहिता त्रिपञ्चाशत् । केवलमिह संस्थानं समचतुरस्रमेव वक्तव्यम् । अस्या अप्युदीरकः सयोगिकेवली तीर्थकर औदारिकमिश्रकापयोगे वर्तमानो | वेदितव्यः । तथा सैव द्विपञ्चाशत् पराघातनामोच्छ्वासनाम प्रशस्ताप्रशस्तविहायोगत्योरन्यतरा विहायोगतिः सुस्वरदुःस्वरयोरन्यतर| स्वरनामेतिचतुष्टयप्रक्षेपात् पट्पश्चाशद्भवति । एनां च सयोगिकेवली औदारिककाययोगे वर्तमान उदीरयति । पराघातोच्छ्वासप्रशस्तविहायोगतिसुस्वरप्रक्षेपात्रिपञ्चाशत् सप्तपञ्चाशद्भवति । एतस्याश्च तीर्थकरः सयोगिकेवली औदारिककाययोगे वर्तमान उदीरकः । सप्तपञ्चाशदेव वाग्योगनिरोधे षट्पञ्चाशद्भवति । उच्छ्वासेऽपि च निरुद्ध पञ्चपञ्चाशत् । अतीर्थकरकेवलिनः प्रागुक्ताः षट्पञ्चाशद्वागयोगे निरुद्धे पञ्चपञ्चाशद्भवति । उच्छ्वासेऽपि च निरुद्ध चतुःपश्चाशत् । अत्र द्विपश्चाशचतुःपञ्चाशदर्जेषु शेषेषु षट्सु प्रत्येकमेकैको विशेष ॥२८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy