SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ Desca RROSCGOOG (मलय०)-सम्प्रत्यनिवृत्तिबादरस्योदीरणास्थानान्याह-'अनियट्टिम्मि'त्ति। अनिवृत्तिबादरे द्वे उदीरणास्थाने । तद्यथा-वे प्रकृती, एका च । तत्र चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः । अत्र त्रिभिदैश्चतुर्भिः संज्वलनादश भङ्गाः । वेदेषु च क्षीणेषु उपशान्तेषु वा संचलनक्रोधादीनामेकतमं क्रोधादिकमुदीरयति। तत्र च चत्वारो भङ्गाः । 'लोभो तणुरागेगो'-तनुराग-तनुरागस्य सूक्ष्मसंपरायस्य सूक्ष्मलोभकिट्टीवेदयमानस्य लोभ एवैको मोहनीयमध्ये उदीरणायोग्यो भवति । सम्प्रति चतुरादिषु दशपर्यन्तेषु उदीरणास्थानेषु विरतान्तानां यावत्यश्चतुर्विशतयो भवन्ति तावतीनिरूपयति-'चउवीस' इत्यादि । दशोदीरYणायामेका चतुर्विंशतिः, नवोदीरणायां पद, अष्टोदीरणायामेकादश, सप्तोदीरणायां दश, षडुदीरणायां सप्त, पञ्चकोदीरणायां चतस्रः, | चतुरुदीरणायामेकेति । एताश्चतुर्विंशतयः प्रागेव भाविताः, केवलं संकलनमात्रमिह, एवं स्वधिया परिभावनीयम् ।। २४ ॥ (उ०)-अनिवृत्तिबादरे दे उदयस्थाने-द्वे प्रकृती, एका चेति । तत्र संज्वलनकतमक्रोधाद्यन्यतमवेदलक्षणे द्वे । अत्र वेदत्रयेण संज्वलनचतुष्टयेन च द्वादश भङ्गाः । वेदानां क्षये उपशमे वा एकतमसंज्वलनक्रोधाद्युदीरशैव प्रवर्तते । तत्र चत्वारो भङ्गाः। तनुरागेतनुरागस्य सूक्ष्मलोभकिट्टीरनुभवतः सूक्ष्मसंपरायस्य लोभ एवको मोहनीयप्रकृतिपूदीरणायोग्यो भवति । अत्र चतुरादिषु दशान्तेषूदीरणास्थानेषु चतुर्विंशतिसङ्ख्यां विरतान्तानामाह-'चउव्वीसा' इत्यादि । दशोदीरणायामेका चतुर्विंशतिः, नवोदीरणायां पद्, अष्टोदीरणायामेकादश, सप्तोदीरणायां दश, षडुदीरणायां सप्त, पञ्चकोदीरणायां चतस्रः, चतुरुदीरणायामेकेति । एताश्च प्रागेव | भाविताः, संकलनमानं त्वेतत् ॥ २४ ॥ इयाणिं णामस्स पगतिउदीरणाए ठाणसमुक्कित्तणा सामित्तं भंगा य भण्णति ASEGA SA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy