________________
(उ०)--वैक्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीरतुल्या जातव्याः, ये वैक्रिय नाम्न उदीरका उक्तास्ते एवास्यापि ज्ञेया | | इत्यर्थः । केवलं चादरपवनं-बादरवायुकायिक हित्वा-परित्यज्य शेषा द्रष्टव्याः। 'आहारगाए' ति-आहारकशरीरनाम्न उपलक्षणादा-13 हारकाङ्गोपाङ्गस्याहारकबन्धनस्याहारकसङ्घातस्य च विरत:-संयतः विकुर्वन्-आहारकशरीरं कुर्वन् प्रमत्तः-प्रमादभावमुपगतः सन्नुदीरको
भवति । उक्तं च-'आहारसत्तगस्स वि कुणइ पमत्तो विकुव्यता" ति ॥ ९॥ | छण्हं संठाणाणं संघयणाणं च सगलतिरियनरा । देहत्था पज्जत्ता उत्तमसंघयणिणो सेढी ॥१०॥
(चू०)-छण्हं संठाणाणं संघयणाणं सगलतिरियनरो-पंचिंदियतिरिक्खो मणुस्सो वा देहत्थो-सरीरणामाए | उदये वहमाणो 'पज्जत्तोत्ति-लद्धिए णियमा पज्जत्तो उदीरेति । एगवयणग्गहणा-एगो सब्वाणि संघयणसंठाणाणिन उदीरेति, जं चेव उदिणं तं चेव उदीरति। 'उत्तमसंघयणिणोसेढि'त्ति-वजरिसभसंघयणी सेढि पडि
वजति, सेससंघयणिणो न पडिवज्जंतित्ति णिदरिसेइ ॥१०॥ . A (मलय)-'छण्हति । सकलाः पञ्चेन्द्रियास्तिर्यश्चो मनुष्याश्च देहस्थाः-शरीरनामोदये वर्तमाना लब्ध्या पर्याप्ताः षण्णां संस्थानानां तषण्णां च संहननानामुदीरका भवन्ति । इहोदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषाम् । ततो यदा यत्संस्थानं संहननं वोदयप्राप्तं भवति
तत्तदोदीर्यते, नान्यदन्यदेति द्रष्टव्यम् । तथोत्तमसंहननिनो-वज्रर्षभनाराचसंहननिनः श्रेणिः-क्षपकश्रेणिर्भवति, न शेषसंहननिनः, तेन | क्षपकश्रेणिं प्रतिपन्ना वज्र भनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयाभावादित्यवसेयम् ।।१०।।
१. पञ्चसंग्रह उदीरणाकरणगाथा ९
kaROORष्ट